सामग्री पर जाएँ

वोढा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वोढा, [ऋ] पुं, (वहतीति । वह + तृच् । “सहिवहोरोदवर्णस्य ।” ६ । ३ । ११२ । इति अकारस्यौकारः ।) भारिकः । (यथा, भाग- वते । ५ । १० । २ । “विषमगतां स्वशिविकां रहूगण उपधार्य्य पुरुषानधिवहत आह हे वोढारः साध्वति- क्रामत ॥”) मूढः । परिणेता । इति शब्द- रत्नावली ॥ (यथा, मनुः । ८ । २०४ । “अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते । उभे ते एकशुल्केन वहेदित्यब्रवीन्मनुः ॥”) सूतः । इति मेदिनी ॥ अनड्वान् । ऋषभः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । ११ । २६ । ५ । “तपोऽर्थीयं ब्राह्मणी धत्त गर्भं गौर्व्वोढारं धावितारं तुरङ्गी ॥” वहनकर्त्तरि, त्रि । यथा, कुमारे । १ । १५ । “भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वोढा&oldid=168812" इत्यस्माद् प्रतिप्राप्तम्