व्यग्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यग्रः, त्रि, (विरुद्धं अगतीति । अग + ऋज्रे- न्द्रेति साधुः ।) व्यासक्तः । (यथा, महा- निर्व्वाणतन्त्रे । ३ । १२४ । “लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥”) आकुलः । इत्यमरः ॥ (यथा, कुमारे । ७ । २ । “वैवाहिकैः कौतुकसंविधानै- र्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम् ॥” ससम्भ्रमः । इति श्रीधरस्वामी ॥ यथा, भाग- वते । ३ । १९ । ५ । “तं व्यग्रचक्रं दितिजाधमेन स्वपार्षदमुख्येन विसर्ज्जमानम् ॥”) पुं, विष्णुः । यथा, -- “प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ।” इति तस्य सहस्रनामस्तोत्रम् ॥
