व्यङ्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यङ्गः, पुं, (विकृतानि अङ्गानि यस्य ।) भेकः । इति मेदिनी ॥ (विकृतानि अङ्गानि यस्मात् ।) मुखरोगविशेषः । तस्य लक्षणं यथा, -- “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागम्य सहसा मण्डलं विसृजत्यतः । नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥” इति माधवकरः ॥ * ॥ तस्य चिकित्सा । “वटाङ्कुरा मसूराश्च प्रलेपाद्ब्यङ्गनाशनः । व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥ अथवा लेपनं शस्तं शशस्य रुधिरेण च । जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् ॥ वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् । कुष्ठं कालीयकं लोध्रं एभिर्ल्लेपं प्रयोजयेत् ॥” इति भावप्रकाशः ॥ (त्रि, विगतं अङ्गं यस्य ।) हीनाङ्गः । इति मेदिनी ॥ (यथा, महाभारते । १ । १६ । २० । “यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् ॥”)
