व्यजनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजनम्, क्ली, (व्यजत्यनेनेति । वि + अज + ल्युट् । ‘वा यौ ।’ २ । ४ । ५७ । इति पक्षे वीभावो नास्ति ।) तालवृन्तकम् । इत्यमरः ॥ पाखा इति भाषा ॥ (यथा, ऋतुसंहारे । १ । ८ । “सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनैः प्रबुध्यते सुप्त इवाद्य मन्मथः ॥”) अस्य सामान्यगुणः । मूर्च्छादाहतृष्णाघर्म्म- श्रमनाशित्वम् ॥ तालव्यजनगुणः । त्रिदोषशम- नत्वम् । लघुत्वञ्च । वंशव्यजनगुणः । रूक्ष- त्वम् । उष्णत्वम् । वायुपित्तकारित्वञ्च ॥ वेत्र- वस्त्रमयूरपुच्छव्यजनगुणः । त्रिदोषनाशित्वम् ॥ बालव्यजनगुणः । तेजस्करत्वम् । मक्षिकादि- निवारकत्वञ्च । इति राजवल्लभः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजनम् [vyajanam], A fan; निर्वाते व्यजनम् H.2.165; R.8.4;1. 62; cf. बालव्यजन -Comp. -क्रिया the act of fanning.-चामरम् a chowrie.

"https://sa.wiktionary.org/w/index.php?title=व्यजनम्&oldid=294516" इत्यस्माद् प्रतिप्राप्तम्