सामग्री पर जाएँ

व्यञ्जकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यञ्जकः, पुं, (व्यनक्तीति । वि + अन्ज + ण्वुल् ।) अभिनयः । इत्यमरः ॥ द्वे हृद्गतक्रोधादि- भावाभिव्यञ्जके । व्यनक्तीति व्यञ्जकः । अन्ज ध ञि गति म्रक्षणे णकः । आङ्गिकसात्त्विक- वाचिकाहार्य्यभेदात् व्यञ्जकश्चतुर्व्विधः । अभि- मुखं नीयते अर्थोऽनेन इति अभिनयः । नी ञ प्रापणे अन् । हस्तादिभिः शस्त्रघातादिसूचन- मभिनयः । घटाद्याकारसूचकं करादिसंस्थान- मभिनयः इत्यन्येऽपि । इति भरतः ॥ व्यञ्जनया प्रतिपादकः । (यथा, साहित्यदर्पणे । २ । ३१ । “अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥” प्रकाशके, त्रि । यथा, मनुः । २ । ६८ । “उत्पत्तिव्यञ्जकः पुण्यः कर्म्मयोगं निबोधत ॥”)

"https://sa.wiktionary.org/w/index.php?title=व्यञ्जकः&oldid=168867" इत्यस्माद् प्रतिप्राप्तम्