सामग्री पर जाएँ

व्यञ्जनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यञ्जनम्, क्ली, (व्यज्यते म्रक्ष्यते अन्नादि संयोज्यते- ऽनेनेति । वि + अञ्ज + ल्युट् ।) अन्नोपकरणम् । तत्तु सूपशाकादि । इति राजनिर्घण्टः ॥ तत्प- र्य्यायः । तेमनम् २ निष्ठानम् ३ । इत्यमरः ॥ तेमः ४ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ८ । ६७ । २ । “आनो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ॥”) अस्य गुणाः । “व्यञ्जनं शाकमत्स्याख्यं हृद्यं वृष्यञ्च पुष्टिदम् । द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः । तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत् ॥” इति राजवल्लभः ॥ व्यञ्जनविशेषगुणाः तत्तच्छब्दे द्रष्टव्याः ॥ * चिह्रम् । (व्यञ्जना । यथा, साहित्यदर्पणे । ३ । ५९ । “अवाच्यत्वादिकं तस्य वक्ष्ये वञ्जनरूपणे ॥”) श्मश्रु । (यथा, महाभारते । १ । १५८ । ३४ । “कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् । बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥”) अवयवः । दिनम् । इति मेदिनी ॥ स्त्रीपुंसयो- रशुद्धदशः । स तु उपस्थः । अर्द्धमात्रकम् । स तु ककारादिक्षकारान्तवर्णः । इति धरणिः (यथा, साहित्यदर्पणे । १० । ६४० । “सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यञ्जनम् [vyañjanam], 1 Making clear, indicating, manifesting.

A mark, token, sign; सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् (रामम्) Rām.3.17.8.

A reminder; Māl.9.

Disguise, garb; नानाव्यञ्जनाः प्रणिधयः Mu.1; Śi.2.56; तपस्विव्यञ्जनोपेताः; गृहपतिवैदेहकतापसव्यञ्जनाः प्रणिधयः Kau. A.2. &c.

A consonant.

A mark of the sex, i. e. the male or female organ.

Insignia.

A mark or sign of puberty; अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः Rām.3.38.14; बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् Mb.1.157.35.

The beard.

A limb, member.

(a) A condiment, sauce, a seasoned article; व्यञ्जनानि ओदनार्थानि ŚB. on MS. 1.8.29; अशक्नुवद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः N.16.14. (b) An article used in seasoning food, spices &c.

The last of the three powers of a word by virtue of which it suggests or insinuates a sense; see अञ्जन-ना (9) (written व्यञ्जना also in this sense); विरतास्वभिधाद्यासु यथार्थो बोध्यते$परः । सा वृत्तिर्व्यञ्जना नाम शब्द- स्यार्थादिकस्य च S. D.

The letter (as opp. to अर्थ 'meaning').

A day.

A privy part. -Comp. -उदय a. followed by a consonant. -कारः the preparer of a sauce or condiment. -धातुः (वाद्यवादनविधिः) playing of the lute; व्यक्तिर्व्यञ्जनधातुना दशवधेनाप्यत्र लब्धामुना Nāg. 1.14. -संधिः the junction or coalition of consonants.

"https://sa.wiktionary.org/w/index.php?title=व्यञ्जनम्&oldid=294598" इत्यस्माद् प्रतिप्राप्तम्