व्यञ्जना
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यञ्जना, स्त्री, (वि + अञ्ज + णिच् + युच् । टाप् ।) शब्दस्य वृत्तिविशेषः । तस्या लक्षणं यथा, -- “विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः । सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥” शब्दबुद्धिकर्म्मणां विरम्य व्यापाराभाव इति नयेनाभिधा लक्षणा तात्पर्य्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वा उपक्षीणासु ययान्योऽर्थो बोध्यते सा शब्दस्यार्थस्य प्रकृति- प्रत्ययादेश्च वृत्तिर्व्यञ्जन-ध्वनन-गमन-प्रत्यायना- दिव्यपदेशविषया व्यञ्जना नाम । तत्र । “अभिधालक्षणामूला शब्दस्य व्यञ्जना द्बिधा ॥” अभिधामूलामाह । चेष्टया कयात्तित् द्योत्यते । एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ॥ * ॥ “त्रैधिध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥” अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्व्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्या- र्थस्य व्यञ्जना यथा । कालो मधुरित्यादि ॥ लक्ष्यार्थस्य यथा । निःशेषच्युतचन्दनमित्यादि ॥ व्यङ्ग्यार्थस्य यथा । उअ णिच्चल इत्यादि ॥ * ॥ प्रकृतिप्रत्ययादिव्यञ्जनन्तु प्रपञ्चयिष्यते । “शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥” यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्ष्यते । अर्थो- ऽपि शब्दं तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारि- त्वमवश्यमङ्गीकरणीयम् । “अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥” अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः । किञ्च । “तात्पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्य्यार्थं तदर्थञ्च वाक्यं तद्बोधकं परे ॥” अभिधाया एकैकपदार्थबोधनविरमात् वाक्यार्थ- रूपस्य पदान्वयस्य बोधिका तात्पर्य्या नाम वृत्तिस्तदर्थश्च तात्पर्य्यार्थस्तद्बोधकञ्च वाक्यमित्य- भिहितान्वयवादिनां मतम् । इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परि- च्छेदः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यञ्जना [vyañjanā], 1 See व्यञ्जन (12) above.
Irony, sarcasm.
Insinuation.
Articulation, utterance of words; हीनव्यञ्जनया प्रेक्ष्य भीतचित्त इवाब्रूवम् Rām.2.64.11. -Comp. -वृत्तिः f. insinuation, figurative or elliptical mode of expression.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यञ्जना/ व्य्-अञ्जना f. (in rhet. )implied indication , allusion , suggestion Sa1h. Prata1p.
