व्यतिकरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यतिकरः, पुं, (वि + अति + कृ + अप् ।) व्यसनम् । (यथा, कथासरित्सागरे । ७४ । ८९ । “अस्मिन् व्यतिकरे वृत्ते शत्रुतामेव ते गतः ॥”) व्यतिषङ्गः । इति मेदिनी ॥ (विनाशः । यथा, भागवते । १ । ७ । ३२ । “प्रजोपद्रवमालक्ष्य लोकव्यतिकरञ्च तम् । मतञ्च वासुदेवस्य संजहारार्ज्जुनो द्वयम् ॥” मिश्रणम् । यथा, माघे । ४ । ५३ । “अन्योन्यव्यतिकरचारुभिर्विचित्रै- रत्रस्यन्नवमणिजन्मभिर्मयूखैः ॥”)
