व्यभिचारिणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यभिचारिणी, स्त्री, (व्यभिचरति या । वि + अभि + चर + णिनिः । ङीप् ।) परपुरुष- गामिनी । यथा, -- “हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ सोमः शौचं ददौ तासां गन्धर्व्वश्च शुभां गिरम् । पावकः सर्व्वभक्षित्वं मेध्या वै योषितो ह्यतः ॥” इति याज्ञवल्के । १ । ७०-७१ ॥ इति तु स्त्रीसामान्यविषयम् । “व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्त्तृवधे तासां तथा महति पातके ॥” इति गारुडे ९५ अध्यायः ॥ * ॥ तस्याः परित्यागादि यथा । हारीतः । गर्भिणी- मधोवर्णगां शिष्यसुतगामिनीं पापव्यसनासक्तां धनधान्यक्षयकरीं वर्ज्जयेत् । यमः । “स्वच्छन्दगा हि या नारी तस्यास्त्यागो विधीयते । न चैव स्त्रीवधः कार्य्यो न चैवाङ्गवियोजनम् ॥” बृहस्पतिः । “हीनवर्णोपभुक्ता या त्याज्या वध्यापि वा भवेत् ॥” विशेषयति मिताक्षरायां स्मृतिः । “ब्राह्मणक्षत्त्रियविशां भार्य्याः शूद्रेण सङ्गताः । अप्रजास्ता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः ॥” एतत् बलात्कारविषयम् । इत्युद्वाहतत्त्वम् ॥ * ॥ तस्याः पुण्यकर्म्माणि निष्फलानि धनानधि- कारित्वञ्च यथा । हरिवंशीयपुण्यकव्रतो- पाख्याने । “दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति ! । निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे ॥” बृहन्मनुः । “अपुत्त्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत् पिण्डं कृत्स्नमंशं लभेत च ॥” भर्त्तुः शयनं पालयन्ती नान्यगामिनी । इति दायतत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यभिचारिणी [vyabhicāriṇī], An unchaste wife, adulteress.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यभिचारिणी/ व्य्-अभिचारिणी f. a wanton woman , unchaste wife , adulteress W.
