व्ययः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्ययः, पुं, (वि + इ + अच् ।) अर्थस्यापगमः । वित्तसमुत्सर्गः । इति शब्दरत्नावली ॥ खरच् इति पारस्यभाषा ॥ (यथा, मनुः । ९ । ११ । “अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ॥” नाशः । यथा, भागवते । ४ । १ । ४९ । “ताविमौ वै भगवतो हरेवंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥” परित्यागः । दानम् । यथा, रघुः । १२ । २३ । “आत्मानं मुमुचे तस्मात् एकबेत्रव्ययेन सः ॥” बृहस्पतिचारगतवर्षविशेषः । यथा, वृहत्- संहितायाम् । ८ । ३६ । “पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रवलमुत्सवाकुलम् ॥” नामविशेषः । यथा, महाभारते । १ । ५७ । १६ । “अमाहठः कामठकः सुषेणो मानसो व्ययः ॥”)
