व्ययम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्ययम्, क्ली, (व्यय गतौ + अच् ।) लग्नात् द्बादश- स्यानम् । यथा, -- “लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः । मरणं धर्म्मकर्म्मायव्यया द्वादशराशयः ॥” इति ज्योतिस्तत्त्वम् ॥ (व्ययति गच्छतीति । व्यय गतौ + अच् । नश्वरे, त्रि । यथा, मनुः । १ । १९ । “सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्- व्ययम् ॥”)
