व्यलीक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यलीकम्, क्ली, (विशेषेण अलतीति । वि + अल + “अलीकादयश्च ।” उणा० ४ । २५ । इति कीकन्प्रत्ययेन निपातनात् साधुः ।) पीडार्थः । इत्यमरः ॥ गतिविपर्य्ययः । कामजापराधः । इति तट्टीकायां भरतः ॥ यथा, -- “कृत्यं नैव विजानाति परेणापकृतं क्वचित् । कृत्यञ्च संस्मरेदेतदसत्यञ्च न जल्पति ॥ व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः । नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि न च क्षिपेत् ॥ ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम् । ईदृशास्तु नरा भद्रे मम कर्म्मपरायणाः ॥” इति वाराहे योनिगर्भमोक्षणनामाध्यायः ॥ अप्रियम् । (यथा, महाभारते । ३ । ६ । ९ । “न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन । व्यलीकं कृतपूर्व्वं वै प्राज्ञेनामितबुद्धिना ॥”) अकार्य्यम् । वैलक्ष्यम् । इति मेदिनी ॥ (यथा, किराते । ३ । १९ । “यस्मिन्ननैश्वर्य्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि । धुन्वन्धनुः कस्य रणे न कुर्य्यात् मनो भयैकप्रवणं स भीष्मः ॥”) अपराधः । इति हेमचन्द्रः ॥ (यथा, शिशु- पालवधे । ९ । ८५ । “सुदृशः सरसव्यलीकतप्त- स्तरसा श्लिष्टवतः सयौवनोष्मा ॥”) प्रतारणा । इति हलायुधः ॥ (दुःखम् । इति वैजयन्ती ॥ यथा, कुमारे । ३ । २५ । “दिग् दक्षिणा गन्धवर्ह मुखेन व्यलीकनिश्वासमिवोत्ससर्ज्ज ॥”) तद्बति, त्रि ॥ (यथा, भागवते । ८ । २२ । २ । “यद्युत्तमःश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य्य मन्यते । करोन्वृतं तन्न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥”)
व्यलीकः, पुं, (वि + अल पर्य्याप्तौ + कीकन् ।) नागरः । इति मेदिनी ॥ तत्पर्य्यायः । षिड्गः २ वट्प्रज्ञः ३ कामकेलिः ४ विदूषकः ५ पीठ- केलिः ६ पाठमर्द्दः ७ भङ्गिलः ८ छिदुरः ९ विटः १० । इति त्रिकाण्डशेषः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यलीक नपुं।
दुःखम्
समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह
3।3।12।2।1
शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्. पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते॥
: तीव्रदुःखम्, यातना
पदार्थ-विभागः : , गुणः, मानसिकभावः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यलीक¦ न॰ वि + अल--ईकक्।
१ अकार्य्ये
२ वैलक्ष्ये मेदि॰
३ अपराधे हेमच॰
४ अप्रिये
५ अनृते च अमरः।
६ तद्वतित्रि॰।
७ प्रतारणायां हला॰
८ गतिविपर्य्यये भरतः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यलीक¦ mfn. (-कः-का-कं)
1. Disagreeable, displeasing, offensive.
2. Im- proper, unfit to be done.
3. Painful.
4. Strange.
5. False. n. (-कं)
1. Pain, torture.
2. Fault, transgression.
3. Any thing displeasing.
4. Any improper act.
5. Reverse.
6. Cheating, tricking. m. (-कः) A catamite. E. वि and अल् to be able or to adorn, aff. ईकक् |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यलीक [vyalīka], a.
False, untrue; ताश्च व्यलीकं रुरुदुः कृतागसः Bhāg.6.14.48.
Offensive, disagreeable, displeasing; न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्ट्वा त्रात इत्युक्त्वा Mb.3.197. 23.
Not false; इत्थं गिरः प्रियतमा इव सो$व्यलीकाः शुश्राव सूततनयस्य तदा व्यलीकाः Śi.5.1.
Unfit to be done.
कः A libertine.
A catamite.
कम् Anything disagreeable or displeasing, disagreeableness; ननु जन- विदितैर्भवद्व्यलीकौश्चिरपरिपूरितमेव कर्णयुग्मम् Śi.7.54.
Any cause of grief or uneasiness, pain, sorrow, grief; सुतनु हृदयात् प्रत्यादेशव्यलीकमपैतु ते Ś.7.24; यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तको$पि Ki.3.19.; Ku.3.25; R.4.87.
A fault, an offence, a transgression, any improper act; सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन Ki.9.45; Śi.9.85; एवं प्रत्यक्षदृष्टव्यलीकः किं ब्रवीमि Ratn.3;3.15.
Fraud, trick, deception; तस्मात् तमेव सेवेत न व्यलीकेन कर्हिचित् Pt.1.12,242.
Falsehood.
Inversion, contrariety.
Sin, demerit; न सूक्ष्ममपि मे किंचिद् व्यलीकमिह विद्यते Mb.14.14.7.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यलीक/ व्य्--अलीक mfn. very false or untruthful , lying , hypocritical(708247 अम्ind. ) Amar. BhP.
व्यलीक/ व्य्--अलीक mfn. disagreeable , painful , offensive , strange MW.
व्यलीक/ व्य्--अलीक mfn. improper or unfit to be done MW.
व्यलीक/ व्य्--अलीक mfn. not false , S3is3.
व्यलीक/ व्य्--अलीक mfn. = व्यङ्ग्यL.
व्यलीक/ व्य्--अलीक m. = नागरL.
व्यलीक/ व्य्--अलीक m. a catamite MW.
व्यलीक/ व्य्--अलीक n. anything displeasing ib.
व्यलीक/ व्य्--अलीक n. any cause of pain or uneasiness ib.
व्यलीक/ व्य्--अलीक n. pain , grief. MBh. Ka1v. Pur. etc.
व्यलीक/ व्य्--अलीक n. a falsehood , lie , fraud (also pl. ) Ka1v. Pur. etc.
व्यलीक/ व्य्--अलीक n. transgression , offence , misdeed Ratna7v. Ja1takam.
व्यलीक/ व्य्--अलीक n. = वैलक्ष्यL.
व्यलीक/ व्य्--अलीक n. reverse , contrariety , inversion MW.
व्यलीक/ व्य्-अलीक etc. See. p. 1028 , col. 3.
