व्यवसायः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यवसायः, पुं, (वि + अव + सो + घञ् ।) उप- जोविका । पेशा इति पारस्यभाषा । यथा, -- “करोति नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥” इति हितोपदेशे २ परिच्छेदः ॥ अपि च । “आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥” इति चाणक्यशतकम् ॥ अनुष्ठानम् । इति व्यवसायिशब्दार्थदर्शनात् ॥ (यथा, रामायणे । २ । ३० । ४१ । “सर्व्वथा सदृशं सीते ! मम स्वस्य कुलस्य च । व्यवसायमनुक्रान्ता कान्ते ! त्वमतिशोभनम् ॥”) निश्चयः । यथा, -- “ब्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥” इति भगवद्गीतायाम् २ अध्यायः ॥ व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे कर्म्मयोगे व्यवणायात्मिका परमेश्वरभक्त्यैक ध्रुवं तरिष्यामीति निञ्चयात्मिका एकैव एकनिष्ठैव बुद्धिर्भवति । अव्यबसायिनामीश्वराराधनबहि- र्मुखानां कामिनां कामनानन्त्यादनन्तास्तत्रापि कर्म्मफल-गुणफलत्वादि-प्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । इति तट्टीकायां स्वामी ॥ विष्णुः । यथा, -- “व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥” इति महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ५५ ॥ (महादेवः । यथा, तत्रैव । १३ । १७ । ५० । “सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यवसायः [vyavasāyḥ], 1 Effort, exertion, energy, industry, perseverance; करोतु नाम नीतिज्ञो व्यवसायमितस्ततः H.2.14.
Resolve, resolution, determination; मन्दीचकार मरण- व्यवसायबुद्धिम् Ku.4.45 'the thought of resolving to die'; व्यवसायात्मिका बुद्धिः Bg.2.41; व्यवसायो$स्मि 1.36.
An act, action, performance; व्यवसायः प्रतिपत्तिनिष्ठुरः R.8.65.
(a) Business, employment, trade. (b) Following a particular profession or trade.
Conduct, behaviour.
Device, stratagem, artifice.
Boasting.
N. of Viṣṇu.
Of Śiva.
State, condition.-Comp. -आत्मक a. energetic, laborious. -बुद्धि a. having a resolute mind.
