व्यवहर्त्ता
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यवहर्त्ता, [ऋ] पुं, (वि + अव + हृ + तृच् ।) व्यवहारकर्त्ता । प्राड्विवाक इति यावत् । यथा । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्य- र्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्याकलितस्य वोगीश्वरेण व्यवहारपादत्वेना- नभिधानात् व्यवहर्त्तृसम्बन्धाभावाच्च न व्यव- हारपादत्वमिति स्थितम् । इति मिताक्षरायां व्यवहारमातृका ॥ कायस्थस्योपाधिविशेषश्च ॥
