व्यवायी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यवायी, [न्] पुं स्त्री, (व्यवैतुं शीलमस्य । णिनिः ।) कामुकः । यथा, -- “श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन् ॥” इति श्राद्धतत्त्वम् ॥ (व्यवधानकर्त्ता । यथा, पाणिनौ । “व्यवा- यिनोऽन्तरम् ।” ६ । २ । १६६ । “व्यवायी व्यवधाता ।” इति काशिका ॥)
