सामग्री पर जाएँ

व्यसनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यसनम्, क्ली, (वि + अस + ल्युट् ।) विपत् । (यथा, महाभारते । १२ । २२७ । ७ । “पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा । मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ! ॥”) भ्रंशः । (यथा, मनौ । ७ । ९३ । “नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षितम् ॥”) कामजकोपजदोषः । इत्यमरः ॥ (यथा, कथा- सरित्सागरे । ११ । २५ । “तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः । सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥” यथा च भागवते । ४ । २६ । २६ । ४ । “विहाय जाया मतदर्हां मृगव्यसनलालसः ॥” “व्यसनं भोगासक्तिः ।” इति श्रीधरः ॥) विपत् विपत्तिः । भ्रंशोऽपायः पतनम् । मृगयाद्यूतस्त्री- मद्यपानस्वरूपे चतुर्व्वर्गे प्रसक्तिः कामजो दोषः । इच्छाप्रभवत्वात् । वाक्पारुष्यं अर्थ- पारुष्यञ्चेति त्रिवर्गः कोपजो दोषः । कोपप्रभवत्वात् । एषु व्यसनम् । व्यस्यति श्रेयो- मार्गात् व्यसनं कर्त्तरि अनट् । भ्रंशे तु भावे । इति भरतः ॥ (अत्यासक्तिः । यथा, कथा- सरित्सागरे । ११ । ३२ । “शिथिली कृतकैलासनिवासव्यसनो हरः ॥”) अशुभम् । दैवानिष्टफलम् । पापम् । निष्फलो- द्यमः । इति मेदिनी ॥ * ॥ राज्ञां व्यसनानि यथा, “मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ॥” इति हेमचन्द्रः ॥ * ॥ व्यसनासक्ते दोषो यथा, -- “एकैकविषयासक्ताः सर्व्वे मृत्युवशं गताः । यः पुनः संहतान् सेवेत् विषयान् विषयी नरः । स पतेन्महदैश्वर्य्याच्छिन्नमूल इव द्रुमः ॥ स्त्रियः पानं दिवास्वप्नं तथा वादित्रनर्त्तनम् । द्यूताटनमृगागेयकामजानि तथा परे ॥ दण्डैर्वाचा ईर्ष्यासूया क्रोधपैशुन्यसाहसम् । अर्थ दूषणक्रोधोऽर्थे अष्टकोपं विनाशकृत् ॥ देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः । पशवः पक्षिणः सर्व्वे विषये निधनं गताः ॥ एवं विवेकमासक्तं बुद्ध्वा घोरं नराधिप । धव्यर्म्माजं समास्थाय विषयैः सन्निवेश्यताम् ॥” इति देवीपुराणे ८ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यसनम् [vyasanam], 1 Casting away, dispelling.

Separating, dividing.

Violation, infraction; शीलव्यसनमेतत्ते नाभिजाना- म्यहं पुरा Rām.2.12.57; Ki.3.45.

Loss, destruction, defeat, fall; defection, weak point; अमात्यव्यसनम् Pt.3; स्वबलव्यसने Ki.13.15; Śi.2.57.

(a) A calamity, misfortune, distress, evil, disaster, ill-luck; अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव Ku.3.73;4.3; R.12.57. (b) Adversity, need; स सुहृद् व्यसने यः स्यात् Pt.1.327 'a friend in need is a friend indeed'.

Setting (as of the sun &c.); तेजोद्वयस्य युगपद् व्यसनोदयाभ्याम् Ś.4.1 (where व्यसन means 'a fall' also).

Vice, bad practice, evil habit; मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः Ś.2.5; R.18.14; Y.1.31; (these vices are usually said to be ten; see Ms.7.47-48); समानशीलव्यसनेषु सख्यम् Subhāṣ.

Close or intent application, assiduous devotion; विद्यायां व्यसनम् Bh.2.62,63.

Inordinate addiction.

Crime, sin.

Punishment.

Inability, incompetency.

Fruitless effort.

Air, wind.

Individuality. -Comp. -अतिभारः heavy calamity or distress; सा मुक्तकण्ठं व्यसनातिभारात् (चक्रन्द) R.14.68.-अन्वित, -आर्त, -पीडित a. overtaken by calamity, involved in distress. -आवापः an abode of calamity; व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः Bhāg.4.22.13. -कालः time of need. -प्रहारिन् a.

hurting, attacking, giving trouble.

striking (an enemy) in his weak point.-ब्रह्मचारिन् a fellow-sufferer. -वर्गः an aggregate of calamities; प्रकृतिव्यसनवर्गः Kau. A.7. -संस्थित a. one who indulges in any whim.

"https://sa.wiktionary.org/w/index.php?title=व्यसनम्&oldid=297943" इत्यस्माद् प्रतिप्राप्तम्