सामग्री पर जाएँ

व्यस्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यस्तः (वि + अस् + क्तः ।) व्याकुलः । व्याप्तः । इति मेदिनी ॥ प्रत्येकम् । पृथक् पृथक् । यथा, विश्वामित्रः । “कृच्छ्रचान्द्रायणादिनि शुद्ध्यभ्युदयकारणम् । प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥ प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥ महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः ॥ एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्व्वेषु पातकेषु प्रयत्नतः । कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ॥” इति प्रायश्चित्ततत्त्वम् ॥ विपरीतः । यथा, -- “प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=व्यस्तः&oldid=168997" इत्यस्माद् प्रतिप्राप्तम्