व्याकरणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याकरणम्, क्ली, (व्याक्रियन्ते अर्था येनेति । वि + आ + कृ + ल्युट् ।) वेदाङ्गविशेषः । इति शब्द- रत्नावली ॥ तत्र साध्यसाधनकर्त्तृकर्म्मक्रिया- समासादिनिरूपणम् । तस्य व्युत्पत्तिर्यथा । व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दा अस्मिन् अने- नेति वा । इति दुर्गादासः ॥ * ॥ “अथ व्याकरणं वक्ष्ये कात्यायन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ सुप्तिङक्तं पदं ख्यातं सुपः सप्तबिभक्तयः । स्यौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ संबोधने च लिङ्गादावुक्ते कर्म्मणि कर्त्तरि । अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् ॥ अमौट्शसो द्वितीया स्यात् तत्कर्म्म क्रियते च यत् । द्बितीया कर्म्मणि प्रोक्ता उक्तानुक्तविभेदतः ॥ टा भ्यां भिसस्तृतीया स्यात् करणे कर्त्तरीरिता । येन क्रियते करणं तत् कर्त्ता यः करोति सः ॥ ङेभ्यां भ्यसश्चतुर्थी स्यात् संप्रदाने च कारके । यस्मै दित्सा धारयते रोचते संप्रदानकम् ॥ पञ्चमी स्यात् ङसि भ्यां भ्यो ह्यपादाने च कारके । यतोऽपैति समादत्ते अपादानं भयं यतः ॥ ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्धमुख्यके । ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत् ॥ आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ पञ्चमी पर्य्युपाङ्योग इतरर्त्तेऽन्यदिङ्मुखे । एनयोगे द्वितीया स्यात् कर्म्म प्रवचनीयकैः ॥ लक्ष्मणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती । अन्तरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्म्मणि । अप्राणे हि विभक्ती द्बे मन्यकर्म्मण्यनादरे ॥ नमःस्वस्तिस्वधास्वाहालंवषडयोग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ स्वामीश्वराधिपतिभिः साक्षिदायादसूतकैः । निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके ॥ स्मृत्यर्थकर्म्मणि तथा करोतेः प्रतियत्नके । पद्मनाभदत्तकृतसुपद्मव्याकरणं वोपदेवकृतमुग्ध- बोधव्याकरणं गोस्वामिकृतहरिनामामृतव्या- करणं भट्टोजीदीक्षितकृतसिद्धान्तकौमुदीव्याक- रणं अनुभूतस्वरूपाचार्य्यादिकृतसारस्वतादि- व्याकरणानि च सन्ति ॥ * ॥ (विस्तारः । यथा, महाभारते । १२ । २५१ । ११ । “व्यवसायात्मिका बुद्धिर्म्मनो व्याकरणात्मकम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याकरणम् [vyākaraṇam], 1 Analysis, decomposition.
Grammatical analysis, grammar, one of the six Vedāṅgas q. v.; सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः Pt.2.33.
Explaining, expounding.
Discrimination.
Manifestation.
Prediction.
The sound of a bow-string.-Comp. -प्रक्रिया etymology, derivation (of a word).
