व्याकुलात्मा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याकुलात्मा, [न्] त्रि, (व्याकुलः आत्मा यस्य ।) शोकाभिहतचित्तः । यथा, -- “भो वृक्षाः पर्व्वतस्था बहुकुसुमयुता वायुना घूर्णमाना रामोऽहं व्याकुलात्मा दशरथतनयः पृच्छते शोकदग्धः । विम्बोष्ठी चारुनेत्रा गजपतिगमना दीर्घकेशी सुभध्या हा सीता केन नीता मम हृदयगता केन वा कुत्र दृष्टा ॥” इति महानाटकम् ॥
