व्याकोशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याकोशः, त्रि, (व्याकुश्यति प्रस्फुटतीति । वि + आ + कुश + कः ।) विकशितः । इत्यमर- टीकायां रामाश्रमः ॥ (यथा, माघे । ४ । ४६ । “दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥” भावे घञ् । प्रस्फुटनम् । यथा, मृच्छकटिके । ३ अङ्के । “पद्मव्याकोशं भास्करं बालचन्द्रं वापीविस्तीर्णं स्वस्तिकं पूर्णकुम्भम् । तत्कस्मिन् देशे दर्शयाम्यात्मशिल्पं दृष्ट्वा श्वो यद्विस्मयं यान्ति पौराः ॥”)
