व्याघातः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याघातः, पुं, (वाहन्यतेऽनेनेति । वि + आ + हन + घञ् ।) विष्कम्भादिसप्तविंशतियोगान्त- र्गतत्रयोदशयोगः । यथा, -- “परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् । त्यजादौ पञ्च विष्कम्भे सप्त शूले न नाडिकाः ॥ गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ तत्र जातफलम् । “व्याघातकर्त्ता च सतां नितान्तं व्याघातजन्मा मनुजः कठोरः । असत्यभाषी कृपया विहीनो मन्देक्षणो दीर्घतनुः कृशाङ्गः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ अन्तरायः । (यथा, महाभारते । १ । २ । २८८ । “तेन व्याषातमन्त्राणां क्रियमाणमवेक्ष्य च ॥”) प्रहारः । इति मेदिनी ॥ अलङ्कारविशेषः । तस्य लक्षणं यथा, -- “यद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥” येनोपायेन यत् एकेन उपकल्पितं तस्यान्येन जिगीषुतया तदुपायकमेव यदन्यथाकरणं स स्वसाधितवस्तुव्याहतिहेतुत्वात् व्याघातः । उदाहरणम् । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ता स्तुमो वामलोचनाः ॥” इति काव्यप्रकाशे १० उल्लासः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याघातः [vyāghātḥ], 1 Striking against.
A blow, stroke.
An impediment, obstacle.
Contradiction.
Disobedience; प्रथमं तावन्ममाज्ञाव्याघातः Mu.3.
A figure of speech in which opposite effects are shown to be produced from the same cause or by the same agency; it is thus defined by Mammaṭa: तद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥ K. P.1;e. g. see Vb.1.2, or the quotation under विरूपाक्ष.
Decline, defeat; कामः स्त्रीरनुशयवानिव स्वपक्षव्याघातादिति Śi.8.61.
