व्याघ्रनखम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याघ्रनखम्, क्ली, (व्याघ्रस्य नखमिव ।) नखीनाम- गन्धद्रव्यम् । तत्पर्य्यायः । व्याडायुधम् २ कर- जम् ३ चक्रकारकम् ४ । इत्यमरः ॥ नखाङ्कम् ५ नखी ६ नख्यम् ७ व्याघ्रनखी ८ । इति शब्द- रत्नावली ॥ (यथा, बृहत्संहितायाम् । ७७ । ६ । “मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वया सुकुष्ठेन रसेन चूर्णः । तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धितैलम् ॥”) तत्पर्य्यायगुणाः । “नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् । नखं स्वल्पं नखी प्रोक्ता हनुर्हठ्ठविलासिनी ॥ नखद्बयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् । लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् । अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटुः ॥” इति भावप्रकाशः ॥ कन्दविशेषः । नखक्षतविशेषः । इति मेदिनी ॥
