व्यात्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यात्तम्, त्रि, (वि + आ + दा + क्तः ।) प्रसारितम् । विस्तृतम् । यथा, -- “स्तब्धोर्द्ध्वकर्णं गिरिकन्दराद्भुत- व्यात्तास्यनासं हनुभेदभीषणम् । दिवि स्पृशत्कायमदीर्घपीवर- ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ॥” इति श्रीभागवते ७ स्कन्धे ८ अध्यायः ॥ गिरिकन्दरवत् अद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । इति तट्टीकायां श्रीधरस्वामी ॥
