व्याधिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याधिः, पुं, (विविधा आधयोऽस्मात् । यद्वा, वि + आ + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) कुष्ठम् । रोगः । इत्यमरः ॥ (यथा, महाभारते । १२ । १६ । ८ । “द्विविधो जायते व्याधिः शारीरो मानस- स्तथा । परस्परं तयोर्ज्जन्म निर्द्बन्द्वं नीपलभ्यते ॥”) कामव्यथासन्तापजन्यकृशता । इति रसमञ्जरी ॥ कुष्ठस्य निदानं यथा, -- “व्यालोकनमनस्थौल्यक्रीडाविषयचेष्टितैः । विरोधरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ पुंस्त्वोत्साहबलभ्रंशशोथचित्ताप्लवज्वरान् । सर्व्वाकाराङ्गनिस्तोदं रोमहर्षं सुषुप्तताम् ॥ कुष्ठं विमषमन्यच्च कुर्य्यात् सर्व्वाङ्गमार्द्दवम् ॥” इति गारुडे १७२ अध्यायः ॥ अन्यत् कुष्ठशब्दे द्रष्टव्यम् ॥ * ॥ अथ कुष्ठस्य चिकित्सा । “वातोत्तरेषु सपिर्व्वमनं कफोत्तरेषु कुष्ठेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम् ॥ पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः । विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ॥” अवल्गुजः वाकुचीति लोके । पथ्यादिभि- र्लेपः ॥ * ॥ “सोमराजीभवचूर्णं शृङ्गवेरसमन्वितम् । उद्बर्त्तनमिदं हन्ति कुष्ठरोगं कृतास्पदम् ॥” सोमराजी वाकुचीति लोके । सोमराज्युद्- वर्त्तनम् ॥ * ॥ “रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् । मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः ॥ पुष्पकाले तु पुष्पाणि फलकाले फलानि च । संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च । द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् । त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः ॥ विडङ्गसारवाराहीलोहचूर्णाः स्मृताः समाः । निशाद्वयावल्गुजकव्याधिघाताः सशर्कराः ॥ कुष्ठमिन्द्रयवाः पाठाः चूर्णमेषान्तु संयुतम् । खदिरासननिम्बानां घनं क्वाथेन भावयेत् ॥ सप्तधा पञ्चनिम्बन्तु मार्कवस्वरसेन च । स्निग्धः शुद्धतनुर्धीमान् योजयेत्तच्छुभे दिने ॥ मधुना तिक्तहविषा खदिरासनवारिणा । लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत् । जीर्णे तस्मिन् समश्नीयात् स्निग्धं लघु हितं च यत् ॥ विचर्चिकोदुम्बरपण्डरीक- कपालदद्रुकिटिभालसादि । शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ॥ भगन्दरश्लीपदवातरक्त- जडान्धनाडीव्रणशीर्षरोगान् । गान्धारि विषमोह विषविषमांसं मोहयतु स्वाहा । दक्षिणतो रक्ष मां अमुकस्य सर्व्व- भूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजयते न हीयते विप्रश्रसोऽहं कृतवाद्यते । भयरुदय भयवोभयोऽभयं दिशतु ममास्तात् सादनमच्युतः । तदुदरमखिलम् विशन्तु लोका युगपरिवर्त्तसहस्रं क्षयास्तमनमिब प्रविशन्ति कस्मयनो ॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । सर्व्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥” इत्यादिमहापुराणे गारुडे सर्व्वव्याधिहरविष्णु- कवचं नाम २०० अध्यायः ॥
