व्याधितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्याधितः, त्रि, (व्याधिः संजातोऽस्येति । तारका- दित्वादितच् ।) व्याधियुक्तः । तत्पर्य्यायः । आमयावी २ विकृतः ३ अपटुः ४ आतुरः ५ अभ्यमितः ६ अभ्यान्तः ७ । इत्यमरः ॥ रोगी ८ । इति जटाधरः ॥ (यथा, हितोपदेशे । “दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥”)
