व्यानः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यानः, पुं, (व्यानिति सर्व्वशरीरं व्याप्नोतीति । वि + आ + अन + अच् ।) शरीरस्थपञ्चवाय्वन्तर्गत- सर्व्वशरीरगवायुः । इत्यमरः ॥ इमे प्राणादयः पञ्चवायबः शरीरे तिष्ठन्ति ते च नियत- स्थानस्थाः । यदाहुः । “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥” इति ॥ एवं तद्व्यापाराश्च यथा, -- “अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् । भाषणादि निमेषादि तद्ब्यापाराः क्रमादमी ॥” इति भरतः ॥ श्रीधरस्वामिमते तत्कर्म्म । व्यायनम् । आकु- ञ्चनप्रसारणादि । अन्यच्च । “व्यानो व्यानशयत्यन्नं सर्व्वव्याधिप्रकोपणः । महारजतसुप्रख्यो हानोपादानकारणः ॥ स चाक्षिकर्णयोर्मध्ये कठ्यां वै गुल्फयोरपि । घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् । स्कन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः ॥” इति शारदातिलकटीका ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यानः [vyānḥ], One of the five life-winds or vital airs in the body, that which is diffused through the whole body; व्याने तृप्यति श्रोत्रं तृप्यति Ch. Up.5.2.2; व्यानः सर्वशरीरगः.
