सामग्री पर जाएँ

व्यापकन्यासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यापकन्यासः, पुं, शिरस्तः पादान्तं पादतः शिरोऽन्तं मूलमन्त्रविन्यासः । यथा । “आदावृष्यादिको न्यासः करशुद्धिस्ततः परम् । अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥ तालत्रयञ्च दिग्बन्धः प्रणायामस्ततः परम् । ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥” इति तन्त्रसारः ॥ प्रपञ्चस्तु न्यासशब्दे द्रष्टव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=व्यापकन्यासः&oldid=169084" इत्यस्माद् प्रतिप्राप्तम्