सामग्री पर जाएँ

व्यापी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यापी, [न्] पुं, (व्याप्नोति सर्व्वमिति । वि + आप + णिनिः ।) विष्णुः । यथा, -- “स्वपनः स्ववशो व्यापी नैकात्मा नैककर्म्मकृत् ॥” इति महाभारते । तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ६३ ॥ त्रि, व्यापकः । यथा, -- “त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः । न तत्र युग्गादरणमन्यत्र हरिवासरात् ॥” इति तिथ्यादितत्त्वधृतपराशरवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=व्यापी&oldid=169102" इत्यस्माद् प्रतिप्राप्तम्