सामग्री पर जाएँ

व्याप्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्याप्तिः, स्त्री, (वि + आप् + क्तिन् ।) व्यापनम् । (यथा, भागवते । ७ । ८ । १७ । “सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च भूतेषु खिलेषु चात्मनः ॥”) रम्भः । इति मेदिनी ॥ रम्भस्थाने लम्भनमिति हेमचन्द्रे पाठः ॥ शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्य विशेषः । यथा, -- “अनिमा लघिमा व्याप्तिः प्राकाम्यं महिमे- शिता । वशिकामावशायित्वे ऐश्वर्य्यमष्टधा स्मृतम् ॥” इति शब्दमाला ॥ * ॥ न्यायमते साध्यवदन्यावृत्तित्वम् । यथा । अग्न्य- भावस्थाने धूमस्यावर्त्तमानत्वम् । इयं अन्वय- व्याप्तिः । अस्या ज्ञानं प्रति व्यभिचारज्ञाना- भावः सहचारज्ञानञ्च कारणम् । एवं साध्या- भावव्यापकीभूताभावप्रतियोगित्वम् । इयं व्यति- रेकव्याप्तिः । अस्या ज्ञानं प्रति साध्याभाव एवं हेत्वभावस्य सहचारज्ञानं व्यभिचारज्ञाना- भावश्च कारणं तत्र प्रमाणम् । व्याप्तः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः । अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ॥ साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते । व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ॥ हेतुर्व्याप्तिग्रहे तर्कः क्वचित् शङ्कानिवर्त्तकः । द्वैविध्यन्तु भवेद्ब्याप्तेरन्वयव्यतिरेकतः ॥ अन्वयव्याप्तिरुक्तैव व्यतिरेकादथोच्यते । साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥” इति भाषापरिच्छेदः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्याप्तिः [vyāptiḥ], f.

Pervasion, permeation.

(In logic) Universal pervasion, invariable concomitance, universal accompaniment of the middle term by the major; यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः T. S.; अव्यभिचरित- साध्यसामानाधिकरण्यं व्याप्तिः Tarka K.; व्याप्तिः साध्यवदन्यस्मिन्न- संबन्ध उदाहृतः । अथवा हेतुमन्निष्ठविरहाप्रतियोगिना । साध्येन हेतो- रैकाधिकरण्यं व्याप्तिरुच्यते Bhāṣā P.67-68.

A universal rule, universality.

Fulness.

Obtaining.

Omnipresence, ubiquity (as a divine attribute). -Comp. -ग्रहः apprehension of universal concomitance. -ज्ञानम् knowledge of invariable or universal concomitance.-वादः statemeut or assertion of universal pervasion.

"https://sa.wiktionary.org/w/index.php?title=व्याप्तिः&oldid=300213" इत्यस्माद् प्रतिप्राप्तम्