सामग्री पर जाएँ

व्यामिश्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यामिश्रम्, त्रि, (वि + आ + मिश्र + घञ् ।) संमिलितम् । भिन्नविषयाणामेकीभावकरणम् । यथा, -- “व्यामिश्रेणेव वाक्यन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥” इति श्रीभगवद्गीतायाम् । ३ । २ ॥ क्वचित् कर्म्मप्रशंसा क्वचित् ज्ञानप्रशंसा इत्येवं व्यामिश्रं सन्देहोत्पादकमिव यद्वाक्यं तेन मे मतिमुभयत्र दोलायितां कुर्व्वन् मोहयसीव । इति तट्टीकायां श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=व्यामिश्रम्&oldid=169118" इत्यस्माद् प्रतिप्राप्तम्