व्यायामः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यायामः, पुं, (वि + आ + यम + घञ् ।) पौरुषः । (यथा, महाभारते । ४ । ३८ । ७ । “व्यायामसहमत्यर्थं तृणराजसमं महत् । सर्व्वायुधमहामात्रं शत्रुसंवादकारकम् ॥”) श्रमः । (यथा, महाभारते । १ । १७६ । ६ । “व्ययामकर्षितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वशिष्ठस्याश्रमं प्रति ॥”) विषमः । दुर्गसञ्चारः । इति मेदिनी ॥ व्यामः । इति हेमचन्द्रः ॥ मल्लक्रीडा । कुस्ती इति पारस्य भाषा । (यथा, महाभारते । १२ । २१ । ७ । “अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः ॥”) अस्य गुणादि यथा, -- “व्यायामो हि सदा पथ्यो बालनां स्निग्ध- भोजिनाम् । स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥ सर्व्वेष्वृतुषु सर्व्वैर्हि शूरैरात्महितार्थिभिः । शक्त्यर्द्धेन तु कर्त्तव्यो व्यायामो हन्त्यतो व्यथाम् ॥ कुक्षौ ललाटे ग्रीवायां यदा घर्म्मः प्रवर्त्तते । शक्त्यर्द्धं तं विजानीयादायतोच्छ्वासमेव च ॥ लाघवं कर्म्मसामर्थ्यं स्थैर्य्यं क्लेशसहिष्णुता । दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ व्यायामं कुर्व्वतो नित्यं विरुद्धमपि भोजनम् । विदग्धमविदग्धं वा निर्द्दोषं परिपच्यते ॥ न स व्यायामसदृशमन्यत् स्थौल्यापकर्षणम् । न च व्यायामिनं मर्त्यं मर्द्दयन्त्यरयो बलात् ॥ न चैनं सहसाक्रम्य जरा समधिगच्छति ॥ व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्त्तितस्य च । व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥ रक्तपित्ती क्षयी शोषी कासी श्वासी क्षतातुरः । भुक्तवान् स्त्रीषु च क्षीणो व्यायामं परिवर्जयेत् ॥ वातपित्तामयी बालो वृद्बोऽजीर्णी च संत्यजेत् । अतिव्यायामतः कासो रक्तपित्तं प्रजायते ॥ श्रमः क्लमः क्षयस्तृष्णा ज्वरश्छर्द्दिश्च जायते ॥” इति राजवल्लभः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यायामः [vyāyāmḥ], 1 Entending, stretching out; व्यायामसहमत्यर्थं तृणराजसमं महत् Mb.4.4.6.
Exercise, gymnastic or athletic exercise; व्यायामयोगः Mb.12.59.53 (com. व्यायामयोगः आयुधप्रयोगाभ्यासः); स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् Śi.2.94.
Fatigue, labour; व्यायामेन च तेनास्य जज्ञे शिरसि वेदना Mb.3.297.2.
Effort, exertion.
Contention, struggle; व्यायामं मुष्टिभिः कृत्वा तलैरपि समा- गतैः Mb.3.167.4;5.138.25.
Business, occupation.
A difficulty.
A measure of distance (= व्याम q. v.).
Training of the army; व्यायामः स्वसैन्यानाम् Kau. A.1.16.
