सामग्री पर जाएँ

व्यालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्यालः, पुं, (विशेषेण आसमन्तात् अलतीति । अल पर्य्याप्तौ + अच् ।) सर्पः । श्वापदः । इत्यमरः ॥ (यथा, मनुः । १ । ४३ । “पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥”) दुष्टगजः । इति मेदिनी ॥ (यथा, माघे । १२ । २८ । “व्यालद्बिपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्यिरे ॥”) चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ राजा । इत्यमरटीकायां मथुरेशः ॥

व्यालः, त्रि, (वि + आ + अल + अच् ।) शठः । धूर्त्तः । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=व्यालः&oldid=169126" इत्यस्माद् प्रतिप्राप्तम्