व्यालनख
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यालनखः, पुं, (व्यालस्य नख इव आकृतिर्य्यस्य ।) गन्धद्रव्यविशेषः । वघ्नहा इति हिन्दी भाषा । तत्पर्य्यायः । कूटस्थः २ चक्रनायकः ३ चक्री ४ चक्रनखः ५ त्र्यस्रफलः ६ व्याघ्रनखः ७ द्वीपि- नखः ८ खपुरः ९ व्यालपाणिजः १० व्याला- युधः ११ व्यालबलः १२ व्यालखड्गः १३ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । कषा- यत्वम् । कफवातकुष्ठकण्डूव्रणनाशित्वम् । वर्ण्य- त्वम् । सौगन्ध्यप्रदत्वञ्च । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यालनख¦ पु॰ व्यालस्य व्याघ्रस्य नखैव। गन्धद्रव्यभेदे व्यालदलोऽप्यत्र।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यालनख/ व्याल--नख m. a kind of herb (Unguis Odoratus) L.