व्यासक्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यासक्तः, त्रि, (वि + आ + सञ्ज + क्तः ।) विशे- षेणासक्तः । संलग्नः । यथा, -- “व्याकोषेन्दीवराभा कनकपरिलसत्पीतवासाः सुहासा वर्हैरुच्चन्द्रकान्तैर्व्वलयितचिकुरा चारुकर्णा- वतंसा । अंसव्यासक्तवंशध्वनिसुस्वितजगद्वल्लवीभिर्लसन्ती मूर्त्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा ॥” इति छन्दोमञ्जरी ॥
