सामग्री पर जाएँ

व्याहृतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्याहृतिः, स्त्री, (वि + आ + हृ + क्तिन् ।) व्याहारः । मन्त्रविशेषः । यथा, -- “ओ~कारमादितः कृत्वा व्याहृतिस्तदनन्तरम् । ततोऽधीयीत सावित्रीमेकाग्रश्रद्धयान्वितः ॥ पुराकल्पे समुत्पन्ना भूर्भुवःस्वःसनातनाः । महाव्याहृतयस्तिस्रः सर्व्वाशुभनिवर्हणाः ॥ प्रधानपुरुषः कालो ब्रह्मविष्णुमहेश्वराः । सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥ ओङ्कारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् । एष मन्त्रो महाभाग सारात्सार उदाहृतः ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥ (वाक्यम् । यथा, कुमारसम्भवे । ३ । ६३ । “न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्याहृतिः [vyāhṛtiḥ], f.

Utterance, speech, words; न हीश्वर- व्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् Ku.3.63.

Statement, expression; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R. 1.33.

A mystic word uttered by every Brāhmaṇa in performing his daily Sandhyā adoration; (these Vyāhṛitis are three: भूर्, भुवस् and स्वस् or स्वर् usually repeated after om; cf. भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः T. Up.1.5.1; वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च Ms.2.76; according to some they are seven in number as भूः, भुवः, स्वः, महः, जनः, तपः, and सत्यम्.

"https://sa.wiktionary.org/w/index.php?title=व्याहृतिः&oldid=301878" इत्यस्माद् प्रतिप्राप्तम्