सामग्री पर जाएँ

व्युष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्युष्टम्, क्ली, (वि + वस् + क्तः ।) फलम् । दिनम् । प्रभातम् । (यथा, माघे । १२ । ४ । “व्युष्टं प्रयाणञ्च वियोगवेदना विदूननारीकमभूत् समन्तदा ॥”) पर्य्युषितम् । इति हेमचन्द्रः ॥ (प्रभातार्थे क्वचित् पुंलिङ्गोऽपि । स तु दोषायाः पुत्त्रः । यथा, भागवते । ४ । १३ । १४ । “प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्व्वतेजसमादधे ॥”)

"https://sa.wiktionary.org/w/index.php?title=व्युष्टम्&oldid=169194" इत्यस्माद् प्रतिप्राप्तम्