व्यूढः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यूढः, त्रि, (विशेषेण उह्यतेस्म । वि + वह + क्तः ।) विन्यस्तः । संहतः । इत्यमरः । ३ । ३ । ४४ ॥ (व्यूहरचनयाधिष्ठितः । यथा, गीतायाम् । १ । २ । “दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्य्योधनस्तदा । आचार्य्यमुपसंगम्य राजा वचनमब्रवीत् ॥”) पृथुलः । इति मेदिनी ॥ (यथा, रघुः । १ । १३ । “व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्म्मक्षमं देहं क्षात्त्रो धर्म्म इवाश्रितः ॥”)
