व्रजः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रजः, पुं, (व्रज गतौ + “गोचरसंचरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन निपातनात् साधुः ।) समूहः । इत्यमरः ॥ (यथा, महाभारते । १ । १८९ । १२ । “ततः प्रतापः सुमहान् शब्दश्चैव विभावसोः । प्रादुरासीत् तदा तेन बुबुधे स जनव्रजः ॥”) गोष्ठम् । (यथा, माघे । २ । ६४ । “निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दशार्हाः पुरीं माहिष्मतीं द्बिषः ॥ पन्थाः । इति मेदिनी ॥ अग्रवणमथुरयोश्चतु ष्पार्श्ववर्त्तिदेशः । अस्य विवरणं यथा, मात्स्ये । “व्रजमण्डलभूगोलं शेषनागफणं वरम् । कुमुदाख्यं महाश्रेष्ठं सर्व्वेषां मध्यसंस्थितम् ॥ तस्योपरिस्थितं लोकं सर्व्वस्थानं महाफलम् । कृष्णलीलाविहारार्थमुच्चस्थानविराजितम् ॥ चतुरष्टकक्रोशेन परिपूर्णविराजितम् । अस्य प्रदक्षिणीकुर्व्वन् धनधान्यसुखं लभेत् ॥ दानार्च्चावासतो लोको विष्णुलोकमवाप्नुयात् । आवासान्म्रियते चेह पुनर्जन्म न विद्यते ॥ पुण्यं लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले । कृष्णेन निर्म्मितास्तीर्थाः सार्द्धद्बयसहसकाः ॥” * तत्रादौ वनोपवनप्रतिवनाधिवनान्यष्टचत्वा- रिंशत् तानि चतुरष्टक्रोशपरिमाणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह । पाद्मे । “वनानि द्बादशान्याहुर्यमुनोत्तरदक्षिणे । महावनं महाश्रेष्ठं १ द्वयं काम्यवनं शुभम् २ ॥ कोकिलाख्यं तृतीयञ्च ३ तूर्य्यं तालवनं तथा ४ । पञ्चमं कुमुदाख्यञ्च ५ षष्ठं भाण्डीरसंज्ञकम् ६ ॥ नाम्ना छत्रवनं श्रेष्ठं सप्तमं परिकीर्त्तितम् ७ । अष्टमं खदिरं प्रोक्तं ८ नवमं लोहजं वनम् ९ ॥ नाम्ना भद्रवनं श्रेष्ठं दशमं बहुपुण्यदम् १० । एकादशं समाख्यातं वहुलावनसंज्ञकम् ११ ॥ नाम्ना विल्ववनं श्रेष्ठं द्वादशं कामनाप्रदम् १२ । इति द्वादशसं ज्ञानि वनानि शुभदानि च ॥” इति द्वादशवनानि ॥ अथ द्वादशोपवनान्याह वाराहे । “आदौ ब्रह्मवनं नाम १ द्बितीयं त्यप्सरा- वनम् २ । तृतीयं विह्वलं नाम ३ कदम्बाख्यं चतुर्थकम् ४ ॥ नाम्ना स्वर्णवनं श्रेष्ठं पञ्चमं परिकीर्त्तितम् ५ । सुरभीवननामानं षष्ठमाह्लादवर्द्धनम् ६ ॥ श्रेष्ठं प्रेमवनं नाम सप्तमं शुभदं नृणाम् ७ । मयूरवननामानमष्टमं परिकीर्त्तितम् ८ ॥ मालेङ्गितवनं श्रेष्ठं नवमं मानवर्द्धनम् ९ । शेषशायिवनं श्रेष्ठं दशमं पापनाशनम् १० ॥ एकादशं समाख्यातं नारदाख्यं शुभोदितम् ११ । द्बादशं परमानन्दवनं सर्व्वार्थदायकम् १२ ॥ इति द्वादशसंज्ञानि वनान्युपवनानि च ॥” इति द्वादशोपवनानि ॥ * ॥ अथ द्वादशप्रतिवनानि । भविष्ये । “आदौ रङ्कवनं श्रेष्ठं पुरसंज्ञाविराजितम् १ । वार्त्तावनं द्बितीयञ्च २ करहाख्यं तृतीयकम् ३ ॥ चतुर्थं काम्यनामानं वनं कामप्रदं नृणाम् ४ । वनमञ्जननामानं पञ्चमं स्त्रीशुभप्रदम् ५ ॥ नाम्रा कर्णवनं श्रेष्ठं षष्ठं स्वप्नवरप्रदम् ६ । कृष्णाक्षिपलकं नाम वनं सप्तममीरितम् ७ ॥ बन्दप्रेक्षणकृष्णाख्यं वनं नन्दनमष्टमम् ८ । वनमिन्द्रवनं नाम नवमं कृष्णपूजितम् ९ ॥ शिक्षावनं शुभं प्रोक्तं दशमं नन्दभाषितम् १० । चन्द्रावलीवनं श्रेष्ठमेकादशमुदाहृतम् ११ ॥ नाम्ना लोहवनं श्रेष्ठं द्बादशं शुभदं नृणाम् १२ । इति प्रतिवनान्याहुर्मार्गे वामे च दक्षिणे । इति द्वादशसंज्ञास्ते देवावासफलप्रदाः ॥” इति द्वादश प्रतिवनानि ॥ * ॥ अथ द्वादशाधिवनानि । विष्णुपुराणे । “मथुरा प्रथमं नाम १ राधाकुण्डं द्बितीयकम् २ । नन्दग्रामं तृतीयञ्च ३ गूढस्थानं चतुर्थकम् ४ ॥ पञ्चमं ललिताग्रामं ५ वृषभानुपुरञ्च षट् ६ । सप्तमं गोकुलं स्थान-७ मष्टमं बलदेवकम् ८ ॥ गोवर्द्धनवनं श्रेष्ठं नवमं कामनाप्रदम् ९ । वनं जाववटं नाम दशमं परिकीर्त्तितम् १० ॥ मुख्यवृन्दावनं श्रेष्ठमेकादशं प्रकीर्त्तितम् ११ । सङ्केतवटकं स्थानं वनं द्बादशं कीर्त्तितम् १२ ॥ इति द्बादशसंज्ञानि वनान्यधिवनानि च । वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः ॥ एषां नैव विलोकेन वनयात्रा च निष्फला । एषाञ्च दर्शनेनैव वनयात्रा शुभप्रदा ॥ आदौ लीलां यदा पश्येद्बनयात्रां ततश्चरेत् । सर्व्वान् कामानवाप्नोति विष्णुलोकमवाप्नुयात् । सर्व्वत्र विजयी भूयाद्बनयात्राप्रभावतः ॥” इति व्रजभक्तिविलासे १ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रजः [vrajḥ], [व्रज्-घञर्थे क]
A multitude, collection, flock, group; सगोव्रजो$त्यात्मपदुर्गमार्गः Bhāg.1.13.3; नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान्नृपतीन्निपेतुः R.6.7;7.6; Śi. 6.6;14.33.
A station of cowherds; Bhāg 12.9.28.
A cow-pen, cow-shed; 'व्रजः स्याद्गोकुलं गोष्ठम्' इति वैजयन्ती; निरुद्धवीवधासारप्रसारा गा इव व्रजम् Śi.2.64; Ki.4.16.
An abode, a resting-place.
A road.
A cloud.
N. of a district near Mathurā. -जम् Wandering, going. -Comp. -अङ्गना, -यूवतिः f. a woman of Vraja, a cowherdess; मयुरागमनोन्मुखे मुरारावसुभारार्तिभृतां व्रजाङ्गनानाम् Bv.2.165. -अजिरम् a cow-pen. -किशोरः, -नाथः, -मोहनः, -वरः, -वल्लभः epithets of Kṛiṣṇa. -भाषा the language current around Agra nad Mathurā; old Hindi language. -सानः a man.
