सामग्री पर जाएँ

व्रजकिशोरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रजकिशोरः, पुं, (व्रजस्य किशोरः ।) श्रीकृष्णः । स तु द्वादशाधिवनान्तर्गतललिताग्रामाधिवना- धिपो देवः । “अथ ललिताग्रामाधिपव्रज- किशोरमन्त्रः । यथा श्रैधरोपनिषदि । ओ~ श्रै~ ललिताग्रामाधिवनाधिपतये व्रजकिशोराय नमः । इत्येकविंशाक्षरो व्रजकिशोरमन्त्रः । अनेन मन्त्रेण प्राणायामः । अस्य मन्त्रस्य विभाण्डक ऋषिर्व्रजकिशोरो देवता गायत्त्री च्छन्दः मम सकलपापक्षयद्वारा युगलकृष्णदर्श- नार्थे विनियोगः । शिरसि विभाण्डकऋषये नमः मुखे व्रजकिशोराय नमः हृदि गायत्त्री- च्छन्दसे नमः । अथ ध्यानम् । ‘ललितासंयुतं कृष्णं सर्व्वैस्तु सखिभिर्युतम् । ध्यायेत्त्रिवेणिकूपस्थं महारासकृतोत्सवम् ॥’ इति ध्यात्वा यथाशक्ति जपं कृत्वा गुह्यातीत्या- दिना जपं समर्पयेत् । इति ललिताग्रामाधिप- व्रजकिशोरमन्त्रः ।” इति व्रजभक्तिविलासे १ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=व्रजकिशोरः&oldid=169250" इत्यस्माद् प्रतिप्राप्तम्