सामग्री पर जाएँ

व्रजवरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रजवरः, पुं, (व्रजे वरः श्रेष्ठः ।) श्रीकृष्णः । स तु द्वादशाधिवनान्तर्गतजाववटाधिवनाधिपो देवः । “अथ जाववटाधिवनाधिपव्रजवरमन्त्रः । शौन- कीये । ‘वटाद्बहिः समन्तात्तु सघनं वनमास्थितम् । तमेवाधिवनं ख्यातं वटसेवापरायणम् ॥ तस्मिन्मध्ये वटं श्रेष्ठं कृष्णक्रीडावरप्रदम् । वटाद्बहिर्वनं ज्ञातं मध्ये चैव वटं स्मृतम् ॥ वटं वृक्षं स्थितं तत्र वटसंज्ञं विधीयते । वटजावानुसारेण वटलिङ्गानि दर्शयेत् ॥’ वटस्थानलिङ्गम् । ओ~ ठः जा~ वटाधिवनाधि- पतये व्रजवराय नमः । इत्येकोनविंशाक्षरो जाववटाधिवनाधिपव्रजवरमन्त्रः । अनेन मन्त्रेण प्राणायामः । अस्य मन्त्रस्य व्यलीक ऋषि- र्जाववटाधिपो व्रजवरो देवता पङ्क्तिच्छन्दः मम सकलसौभाग्यसम्पत्फलप्राप्त्यर्थे जपे विनि- योगः । न्यासं पूर्व्ववत् । अथ ध्यानम् । ‘नानाशृङ्गारभूषाढ्यं राधाकृष्णं मनोहरम् । ध्यायेद्युगलमूर्त्तिञ्च वनयात्रावरप्रदम् ॥’ इति ध्यात्वा यथाशक्ति जपं कृत्वा गुह्यातीत्या- दिना जपं समर्पयेत् । इति जाववटाधिवना- धिपव्रजवरमन्त्रः ।” इति व्रजभक्तिविलासे १ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=व्रजवरः&oldid=169260" इत्यस्माद् प्रतिप्राप्तम्