व्रण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) व्रणति । इति दुर्गादासः ॥

व्रण, त् क अङ्गचूर्णे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) अङ्गचूर्णः अङ्गभेदः । व्रणयति गात्रं बाणेन भटः । इति दुर्गादासः ॥

व्रणः, पुं, क्ली, (व्रणयति गात्रमिति । व्रण अङ्ग- चूर्णे + पचादित्वात् अच् ।) क्षतम् । तत्पर्य्यायः । ईर्म्मम् २ अरुः ३ । इत्यमरः ॥ ईर्म्मः ४ । इति तट्टीका ॥ (यथा, रघुः । १२ । ५५ । “स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत् कर्म्म व्रणैरावेद्य संस्थितः ॥”) अथ व्रणाधिकारः । “व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः । दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादिसम्भवः ॥” तत्र वातिकस्य लक्षणमाह । “स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः । तुद्यते स्फुटितश्यावो व्रणो मारुतसम्भवः ॥” स्तब्धः अचलः ॥ * ॥ पैत्तिकमाह । “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः । व्रणं पित्तकृतं विद्यात् सावैर्गन्धैश्च पूतिकैः ॥” क्लेद आर्द्रता । दुःखं व्यथारूपम् । अवदारणं व्रणे विदारणवत् पीडा ॥ * ॥ श्लैष्मिकमाह । “बहुपिच्छो गुरुः स्निग्धस्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ॥” बहुपिच्छः बहुपिच्छिलः । अल्पसंक्लेद ईष- दार्द्रः ॥ * ॥ रौधिरं द्वन्द्वजं सान्निपातिकमाह । “रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयः ।” तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः ॥ * ॥ शुद्ध- व्रणलिङ्गमाह । “जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्प- वेदनः । सुव्यवस्थो निरस्रावः शुद्धव्रण इति स्मृतः ॥” जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः । तेन जिह्वावद्रक्तः । सुव्यवस्थः उच्छनतारहितः ॥ दुष्टव्रणलिङ्गमाह । “पूतिपूयादिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः । दुष्टव्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः ॥” उत्सङ्गी कोटरवान् । अतिगन्धादिः आदि- शब्देन स्राववेदनाविवर्णतादयः संगृह्यन्ते ॥ * ॥ संरोहव्रणस्य लिङ्गमाह । “कपोतवर्णप्रतिमा यस्यां तालोदवर्जिताः । स्थिराश्च पिडकावन्तो रोहन्तीति तमादिशेत् ॥” “उडुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् । पिप्पलञ्च कदम्बञ्च पलाशलोध्रतिन्दुकम् ॥ मधूकमाम्रसर्जञ्च वदरं पद्मकेशरम् । शिरीषबीजं कतकमेतत् क्वाथेन साधितम् । तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि ॥” इति गारुडे १९८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रण पुं-नपुं।

व्रणम्

समानार्थक:व्रण,ईर्म,अरुस्

2।6।54।1।1

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रण¦ शब्दे भ्वा॰ पर॰ अक॰ सेट्। व्रणति अव्राणीत् अव्रणीत्।

व्रण¦ अङ्गक्षतौ अद॰ चु॰ उ॰ सक॰ सेट्। व्रणयति ते अवव्रणत् त

व्रण¦ पु॰ न॰ चु॰ व्रण--अच्। क्षते अमरः। तत्स्वरूपनि-दानादि भावप्र॰ उक्तं यथा
“व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः। दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादि-सम्भवः”। तत्र वातिकस्य लक्षणमाह
“स्तब्धः क-ठिनसंस्पर्शो मन्दस्रावो महारुजः। तद्युतः स्फु-टितश्यावो व्रणो मारुतसम्भवः”। स्तब्धः अचलः। पैत्तिकमाह
“तृष्णामोहज्वरक्लेददाहदुःखावदारणैः। व्रणं पित्तकृतं विद्यात् स्रावैर्मन्दैश्च पूतिकैः”। क्लेदआर्द्रता। दुःखं व्यथारूपम्। अवदारणं व्रणे विदा-रणवत् पीडा। श्लैष्मिकमाह
“बहुपिच्छो गुरुःस्निग्वस्तिमितो मन्दवेदनः। पाण्डुवर्णोऽल्पसंक्लेदश्चिर-पाकी कफव्रणः”। बहुपिच्छः बहुपिच्छिलः। अल्पसंक्लेद ईषदार्द्रः। रौधिरं द्वन्द्वजं सान्निपातिकमाह
“रक्तो रक्तस्रुतीरक्ताद् द्वित्रिजः स्यात् तदन्वयः”। तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः। शुद्धव्रणलिङ्गमाह
“जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्पवेदनः। सु-व्यवस्थो निरास्रावः शुद्धव्रण इति स्मृतः। जिह्वातलाभःतलशब्दोऽत्र स्वरूपार्थः तेन जिह्वावद्रक्तः। सुव्य-वस्थः उच्छूनतारहितः। दुष्टव्रणनिङ्गमाह
“पूतिपू-यादिदुष्टासृक्स्राव्यूतसङ्गी चिरस्थितिः। दुष्टव्रणो-ऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः”। उत्सङ्गी कोटर-वान्। अतिगन्धादिः आदिशब्देन स्राववेदनाविवर्ण-तादयः संगृह्यन्ते। संरोहिव्रणस्य लिङ्गमाह
“कपोत-वर्णप्रतिमा यस्यां तालोदवर्जिताः। स्थिराश्च पिडका-[Page4992-a+ 38] वन्तो रोहन्तीति तमादिशेत्”। कपोतवर्णप्रतिमः पा-ण्डुघूसरः। स्थिराः विदीर्णतारहिताः। पिडका-वन्तः संरोहणार्था ये मांसाङ्कुरास्तद्युक्ताः। संरूढ-लिङ्गमाह
“रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम्। त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्”। रूढ-वर्त्मानं संरूढस्रावमार्गम्। समतलं अनिम्नम्। सु-खसाध्यत्वादिकमाह
“त्वङ्मांसजः सुखे देशे तरुण-स्यानुपदुवः। धीमतोऽभिनवः काले सुखे साध्यः सुख-व्रणः”। सुखे देशे मर्मरहिते। अनुपद्रवः ज्वरतृष्णाश्वासकासारोचकादिरहितः। धीमतः पथ्यसेविनः। सुखे काले हेमन्ते शिशिरे च।
“गुणैरन्थतरैरेभिर्हीनःकृच्छो व्रणः स्मृतः। सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो नि-रुपक्रमः”। एभिस्त्वङ्मांसजत्वादिभिः। निरुपमक्रमःअनुपक्रान्तः चिरमुपेक्षित इति यावत्।
“वसामेदोऽथ-मज्जानं मस्तुलिङ्गञ्च यः स्रवेत्। आगन्तुजो व्रणः सिध्येन्न सिध्येद्दोषसम्भवः”। मस्तुलिङ्गं मस्तुकाभ्यन्तर-स्नेहः
“कुष्ठिनां विषजुष्टानां शौषिणां मधुमेहिनाम्। व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणः”। अ-रिष्टमाह
“दह्यन्ते चान्तरत्यर्थं वहिःशीताश्च येब्रणाः। दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः। प्राणमांसक्षयश्वासकासारोचकपीडिताः। प्रवृद्धपूयरु-धिरा व्रणा ये चापि मर्मसु। क्रियाभिः सम्यगारब्धान सिध्यन्ति च ये व्रणाः। चिकित्सेन्नैव तान् वैद्यःसंरक्षन्नात्मनो यशः। मद्यागुर्वाज्यसुमनः पद्मचन्दन-चम्पकैः। सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाःस्मृताः”। मर्मसु पायुनाभिहृदयादिषु। सुमनाजातिः। दिव्यगन्धाः पारिजातादिगन्धाः। अथागन्तु-व्रणस्य निदानमाह
“नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः। भवन्ति नानाकृतयो व्रणास्तांस्तान्नि-बोध मे”। नाना धारा मुखानि येषां तैः शस्त्रैः अर्द्ध-चन्द्र खङ्गभल्लकुन्तशूलशरादिभिः। नानाकृतयः षडा-कृतयः। ता आकृतीराह
“छिन्नं भिन्नं तथा विद्धंक्षतं पिच्चितमेव च। घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्या-मि लक्षणम्”। तत्र छिन्नस्य लक्षणमाह
“तिर्य्यक्-किन्न ऋजुर्वापि यो व्रणस्त्वायतो भवेत्। गात्रस्य पा-तरं तद्धि छिन्नमित्यभिधीयत”। यो व्रणः तिर्य्यक्छिन्नःखड्गादिकृततिर्य्यक्छेदयुतः। ऋजुर्वापि अथवा खड्-गादिकृतरक्तो व्रणः आयतः दीर्घः। आयत इति[Page4992-b+ 38] तिर्य्यक्छिन्नस्य ऋजोश्च विशेषणम्। गात्रस्य पातनगात्रस्यैकदेशस्य छेदेन पृथक्करणं वा छिन्नमित्यभिधी-यते। भिन्नमाह
“शक्तिकुन्तेषुखड्गाग्रविषाणैराशयोहतः। यत् किञ्चित् प्रसरेत्तद्धि भिन्नमित्यभिधीयते”। आशयः कोष्ठः। कोष्ठभेदस्य लक्षणमाह
“स्थानान्य-नग्निपक्वानां मूत्रस्य रुधिरस्य च। हृदुण्डुकः फु-फुसश्च कोष्ठ इत्यभिधीयते। तस्मिन् भिन्ने रक्तपूर्णेज्वरोदाहश्च जायते। मूत्रमार्गगुदास्येभ्यो रक्तं थ्राणाच्चगच्छति। मूर्च्छा श्वासस्तृषाध्मानमभक्तच्छन्द एव च। विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता। लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च। हृदि शूलं पार्श्व-योश्च विशेषश्चाभिधीयते”। तस्मिन् कोष्ठे। मिन्नेशक्त्यादिभिः। रक्तपूर्णे कोष्ठे तस्मादङ्गाद्भिन्नात् स्रु-तेन रक्तेन पूर्णे वा ज्वरादयो जायन्ते। आमाशयेपक्वाशये च रक्तपूर्णे लक्षणभेदमाह
“आमाशयस्थेरुधिरे रुधिरं छर्दयत्यपि। आध्मानमतिमात्रञ्च शू-लञ्च भृशदारुणम्। पक्वाशयगते रक्ते रुजा गौरवमेवच। अधःकाये विशेषेण शीतता च भवेदिह”। रुजा-शूलम्। गौरवं पक्वाशये। अधःकाये नाभेरधोदेशेविशेषेण गौरवमित्यन्वयः। शीतता च भवेदिह इहनाभेरधोदेशे शीतता च स्यात् सा च व्याधिस्वभा-वात्। विद्धमाह
“सूक्ष्मास्यशल्याभिहतं पदं गत्वा-शयं विना। उत्तुण्डितं निर्गतं वा तद्विद्धमिति नि-र्दिशेत्”। आशयं विना कोष्ठं विना। उत्तुण्डितं अ-निर्गतशल्यम्। निर्गतं वा निर्गतशल्यं वा। सशल्यस्यव्रणस्य लक्षणमाह।
“श्यावं सशोथं पिडकायुतञ्च मुहु-र्मुहुःशोणितवाहनञ्च। मृदूद्गतं बुद्बुदतुल्यमांसंव्रणं सशल्यं सरुजं वदन्ति”। मुहुर्मुहुःशोणितवाहनंयदा यदा शल्यं चलितं तदा तदा रुधिरं वहति। उद्गतं उत्थितमुखम्। कोष्ठस्थितस्य शल्यस्य लक्षणमाह
“त्वचोऽतीत्य सिरादीनि भित्त्वाङ्गं परिहृत्य वा। कोष्ठेप्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान्”। त्वचः सप्तापिअतिक्रम्य उक्तानुपद्रवान् आटोपानाहौ व्रणमुखेनात्रपुरीषदर्शनञ्च। असाध्यस्य कोष्ठस्थरक्तस्य पुरोषस्य लक्ष-णमाह
“कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम्। शीतोच्छासं रक्तनेत्रमानद्धञ्च विवर्जयेत्”। आनद्धं आ-नाहवन्तम्। क्षतमाह
“नातिच्छिन्नं नातिभिन्नमुभयो-र्लक्षणान्विनम्। विषमं व्रणमङ्गे यत्तत् क्षतं परिकी-[Page4993-a+ 38] र्त्तितम्”। नातिच्छिन्नं नातिदीर्घघातम्। नातिभिन्नंनातिगम्भीरघातम्। उभयोश्छिन्नभिन्नयोः विषमंप्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम्। पिच्चितमाह
“प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम्। सास्थितत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम्”। प्रहारोमुद्गरादिना। पीडनं कपाटादिना। पृथुतां चिपि-टताम्। घृष्टमाह
“घर्षणादपि घाताद् वा यदङ्गंविगतत्वचम्। ऊष्मस्रावान्वितं तत् तु घृष्टमित्यभिधी-यते। घर्षणात् कर्कशेष्टिकापाषाणादिभिः। मांससिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्यलक्षणमाह
“भ्रमः प्रलापः पतनं प्रगोहो विचेष्टनं ग्लानिरथो-ष्णता च। स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववातस्तीव्रा रुजोवातकृताश्च तास्ताः। मांसोदकाभं रुधिरञ्च गच्छेत्सर्वेन्द्रियार्थोपरमस्तथैव। दशार्द्धसंख्येष्पथ विक्षतेषु सामा-न्यतो मर्मसु लिङ्गमुक्तम्”। पतनं भूमौ। विचेष्टनंविरुद्धं चेष्टनं हस्तपादादिप्रक्षेपणादिकम्। मूर्च्छनंइन्द्रियमोहः। प्रमोहो मनोमात्रमोहः। तीव्रा रुजोवातकृताश्च तास्ताः दण्डापतानकादयः। रुधिरञ्च गच्छेत् मेहनभगगुदास्यघ्राणेध्यः स्रवेत्। सर्वेन्द्रियार्थोपरमः इन्द्रियाणां कार्य्यनाशः। अथ मर्मसिरास्नायु-सन्ध्यस्थ्नां विद्धानां पृथग्लक्षणमाह
“सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः। करोतिरोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्ष-तासु”। सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः। (वीर-बहुटी) इति लोके पुसिद्धः। प्रभूतं बहु। रोगान्शिरोभितापान्धताक्षवकादीन्। विद्धासु शरादिना। क्षतान् खड्गादिना।
“कौब्ज्यं शरीरावयवावसादःक्रियास्वशक्तिस्तुमुला रुजा च। चिराद् व्रणो रोहतियस्य चापि तं स्नायुविद्धं पुरुषं वदन्ति। कौब्ज्यंविद्धस्याङ्गस्य वक्रता। तुमुला महती”।
“शोथातिवृद्धि-स्तुमुलारुजश्च बलक्षयः सर्वत एव शोथः। क्षतेषु स-न्धिष्वचलाबलेषु स्यात् सन्धिकर्मोपरमश्च लिङ्गम्”। सर्वतएव शोथः सर्वसन्धीन् व्याप्य शोथः। उपरमः नाशः।
“घोरारुजो यस्य निशादिनेषु सर्वास्ववस्थासु न चैतिशान्तिम्। भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पु-रुषं प्रवक्ति”। सर्वास्वरस्थासु शयनासनादिकासु। वि-दितार्थसूत्रेः ज्ञातशल्यतन्त्रः। अथ ममेषिरादिविद्धलिङ्गानि पृथगभिधाय सर्मसिरादीनां विद्धानां पृ-[Page4993-b+ 38] थक्लिङ्गान्थतिदेशेनाह
“यथास्वमेतानि विभावयेच्चलिङ्गानि मर्मस्वपि ताडितेषु”। यथास्वं सिरादीनांविद्धानाम् एतानि लिङ्गानि पृथगुक्तानि लिङ्गानि च-कारात् भ्रमप्रलापादीनि च। मर्मस्विव सिरादिषुताडितेषु विद्धेषु विभावयेत् जानीयात्। सर्वव्र-णानामुपद्रवानाह
“विसर्पः पक्षघातश्च सिरास्तम्भाऽप-तानकः। मोहोन्मादौ ब्रणे पीडा ज्वरस्तृष्णाहनु-ग्रहः। कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः। षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः”। अथा-ग्निदग्धस्य निदानमाह
“तत्राग्निर्द्विविधो ज्ञेवः स्नेह-रूक्षप्रभेदतः। स्नेहस्तत्र तु तैलादि रूक्षं लौहादि-कथ्यते”। अग्निदग्धं चतुर्विधमाह
“अग्निदग्धं च-तुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च। सम्यग्दग्धं तथाती-व्रदग्धञ्च परिकीर्त्तितम्”। तेषां लक्षणभाह
“यद्विवर्ण-मतिप्लुष्टं तत्प्लुष्टमभिधीयते। तीव्रदाहो व्यथावन्तोयत्र स्फोटा भवन्ति हि। चिरेण ते प्रशाम्यन्ति तद्दु-र्दग्धमुदाहृतम्। ताम्रवर्णमगम्भीरं दाहपीडासम-न्वितम्। सुसस्थितञ्च कथितं सम्यगदग्धं भिषग्वरैः। त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा। सिरा-स्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम्। अत्यर्थं वे-दनादाहो ज्वरस्तृण्मूर्च्छया सह। स्याद् व्रुणस्तु चि-राद् रोहेत् रूढो याति विवर्णताम्”। दुष्टव्रणनाडीव्रणशब्दयोस्तद्भेदौ दृश्यौ। व्रणशब्दनिरुक्तिः सुश्रुतेउक्ता यथा
“वृणोति यस्माद्रूढोऽपि व्रणवांस्तु ननश्यति। आदेहधारणात्तस्मात् व्रण इत्युच्यते बुधैः”। सुश्रुतोक्ता विशेषाः द्विव्रणशब्दे व्रणास्रावशब्दे च दृश्याः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रण¦ mn. (-णः-णं) A tumor, a boil, an ulcer, a wound. E. व्रण् to wound, an abscess, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रणः [vraṇḥ] णम् [ṇam], णम् [व्रण्-अच्]

A wound, sore, bruise, hurt; आत्मनः सुमहत् कर्म व्रणैरावेद्य संस्थितः R.12.55.

A boil, an ulcer; व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः U.2.26.

A fracture, scar.

A flaw, blemish. -Comp. -अरिः gum-myrrh. -कृत् a.

wounding.

corroding. (-m.) the marking-nut tree. -चिन्तकः a surgeon. -विरोपण, -संरोहण a. sore-healing; यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत Ś.4.13. -शोधनम् the cleansing or dressing of a wound. -हः the castor-oil plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रण m. (exceptionally n. )a. wound , sore , ulcer , abscess , tumour , cancer , boil , scar , cicatrix , crack Mn. MBh. etc.

व्रण m. a flaw , blemish (also in inanimate objects) MBh. Hariv. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=व्रण&oldid=504722" इत्यस्माद् प्रतिप्राप्तम्