व्रणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रणः, पुं, क्ली, (व्रणयति गात्रमिति । व्रण अङ्ग- चूर्णे + पचादित्वात् अच् ।) क्षतम् । तत्पर्य्यायः । ईर्म्मम् २ अरुः ३ । इत्यमरः ॥ ईर्म्मः ४ । इति तट्टीका ॥ (यथा, रघुः । १२ । ५५ । “स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत् कर्म्म व्रणैरावेद्य संस्थितः ॥”) अथ व्रणाधिकारः । “व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः । दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादिसम्भवः ॥” तत्र वातिकस्य लक्षणमाह । “स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः । तुद्यते स्फुटितश्यावो व्रणो मारुतसम्भवः ॥” स्तब्धः अचलः ॥ * ॥ पैत्तिकमाह । “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः । व्रणं पित्तकृतं विद्यात् सावैर्गन्धैश्च पूतिकैः ॥” क्लेद आर्द्रता । दुःखं व्यथारूपम् । अवदारणं व्रणे विदारणवत् पीडा ॥ * ॥ श्लैष्मिकमाह । “बहुपिच्छो गुरुः स्निग्धस्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ॥” बहुपिच्छः बहुपिच्छिलः । अल्पसंक्लेद ईष- दार्द्रः ॥ * ॥ रौधिरं द्वन्द्वजं सान्निपातिकमाह । “रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयः ।” तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः ॥ * ॥ शुद्ध- व्रणलिङ्गमाह । “जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्प- वेदनः । सुव्यवस्थो निरस्रावः शुद्धव्रण इति स्मृतः ॥” जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः । तेन जिह्वावद्रक्तः । सुव्यवस्थः उच्छनतारहितः ॥ दुष्टव्रणलिङ्गमाह । “पूतिपूयादिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः । दुष्टव्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः ॥” उत्सङ्गी कोटरवान् । अतिगन्धादिः आदि- शब्देन स्राववेदनाविवर्णतादयः संगृह्यन्ते ॥ * ॥ संरोहव्रणस्य लिङ्गमाह । “कपोतवर्णप्रतिमा यस्यां तालोदवर्जिताः । स्थिराश्च पिडकावन्तो रोहन्तीति तमादिशेत् ॥” “उडुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् । पिप्पलञ्च कदम्बञ्च पलाशलोध्रतिन्दुकम् ॥ मधूकमाम्रसर्जञ्च वदरं पद्मकेशरम् । शिरीषबीजं कतकमेतत् क्वाथेन साधितम् । तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि ॥” इति गारुडे १९८ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रणः [vraṇḥ] णम् [ṇam], णम् [व्रण्-अच्]
A wound, sore, bruise, hurt; आत्मनः सुमहत् कर्म व्रणैरावेद्य संस्थितः R.12.55.
A boil, an ulcer; व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः U.2.26.
A fracture, scar.
A flaw, blemish. -Comp. -अरिः gum-myrrh. -कृत् a.
wounding.
corroding. (-m.) the marking-nut tree. -चिन्तकः a surgeon. -विरोपण, -संरोहण a. sore-healing; यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत Ś.4.13. -शोधनम् the cleansing or dressing of a wound. -हः the castor-oil plant.
