सामग्री पर जाएँ

व्रणशोथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रणशोथ¦ पु॰

६ त॰। व्रणस्य स्फीतताकारके रोगभेदे तल्ल-क्षणादि भावप्र॰ उक्तं यथा
“पृथक् समस्तदोषोत्था रक्तजागन्तुजौ तथा। व्रणशोथाःषडेते स्युः संयुक्ताः शोथलक्षणैः” शीथलक्षणैः पूर्वोक्तैः। विशिष्टं रूपमाह
“विषमं पच्यते वातात् पित्तोत्थश्चा-चिरञ्चिरम्। कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवौ”। अपक्वस्य व्रणशोथस्य लक्षणमाह
“मन्दोष्मताऽल्पशोथत्वंकाठिन्यं त्वक्सवर्णता। मन्दवेदनया चाऽपि शोथ-स्यासस्य लक्षणम्”। तस्य पच्यमानस्य लक्षणमाह
“द-[Page4994-a+ 38] ह्यते दहनेनेव क्षारेणेव प्रपच्यते। पिपीलिकागणेनेवदश्यते छिद्यते तथा। भिद्यते चैव शस्त्रेण दण्डेनेवच ताड्यते। पीड्यते पाणिनेवान्तःसूचीभिरिव तुद्यते। ऊषचोषी विवर्णः स्यादङ्गुल्येवावपीड्यते। आसने श-यने स्थाने शान्तिं वृश्चिकविद्धवत्। न गच्छेदाततःशोथो भवेदाध्मातवस्तिवत्। ज्वरस्तृष्णाऽरुचिश्चैतत् प-च्यमानस्य लक्षणम्”। छिद्यते द्विधा क्रियत इव। भि-द्यते विदार्य्यत इव। ऊषोदाहः। चोषः पार्श्वस्थाग्नि-नेव सन्तापः ताभ्यां युक्तः आततः त्वक्सङ्कोचरहितःवस्तिर्मूत्राशयश्चर्मपुटो वा। पक्वस्य लक्षणमाह
“वेदनो-पशमः शोथो लोहितोऽल्पो न चोन्नतः। प्रादुर्भावोवलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः। उपद्रवाणां प्रथमोनिम्नता स्फुटनन्त्वचाम्। वस्ताविवाम्बुसञ्चारः स्याच्छो-थेऽङ्गुलिपीडिते। पूयश्च पीडयेदेकमन्तमन्ते च पीडिते। बुभुक्षा व्रणशोथस्य भवेत् पक्वस्य लक्षणम्”। वेदनोपशमः दाहादिदुःखोपशमः। अल्पलोहितइत्यन्वयः। न चोन्नतः पच्यमानापेक्षया। उपद्रवाणाज्वरादीनाम्। निम्नता स्वरूपतोऽङ्गुलिपीडनाद्वा अव-नतत्वम्। स्फुटनम् किञ्चिद्विदारणम्। वस्ताविवे-त्यादि शोथेऽङ्गुलीपीडिते सति अङ्गुलिपीडितदेशा-दन्यदेशे अम्बुसञ्चारः किञ्चित्। वस्तौ चर्मपुटके। एवम्अन्यैकदेशे पीडिते एक मन्तमपरमन्तमापूर्य पीड-यति। एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धमाह
“ऋतेऽनिलान्नोष्म विना न पित्तं पाकः कफञ्चापिविना न पूयः। तस्माद्धि सर्वे परिपाककाले पचन्तिशोथास्त्रिभिरेव दोषैः”। पचन्ति पाकं प्राप्नुवन्ति। एवशब्दोऽत्राप्यर्थः अव्ययानामनेकार्थत्वात्। पाकेमतान्तरमाह
“कालान्तरे नाभ्युदितन्तु पित्तं कृत्वावशे वातकफौ प्रसह्य पचत्यतः शोणितमेष पाको मतःपरेषां विदषां द्वितीयः”। वशे कृत्वा हीनीकृत्य शो-णितं कर्म पूर्वत्र कफात् पूयोऽत्र शोणितात् पूय इतिभेदः। गम्भीरपाके शोथे पाकज्ञानार्थलक्षणान्तरमाहसुश्रुतः
“कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्। पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता। त्वक्-सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्”। कफजेषुच शोथेषु गम्भीरमसृक् पाकमेति तत्र कथं पाकज्ञा-नमित्याह तत्र ततः कारणात् पक्वलिङ्गं स्पष्टम्। यतः पच्यमानावस्थान्तर्गतरागदाहव्यथाघनान्तरे शोथ[Page4994-b+ 38] शीतादयो भवन्ति। घनस्पर्शत्वं स्पर्शे व्यथायुतत्वम्। अ-निर्हतस्य पूयस्य दीषमाह
“कक्षं समासाद्य यथैव वह्नि-र्वातरितः सन्दहति प्रसह्य। तथैव पूवोह्यविनि सृतस्तुमांसं सिराः स्नायुमपीह खादेत्”। कक्षं तृणवनम्। शोथस्यामपक्वलक्षणज्ञानाज्ञाने भिषजां गुणदोषावाह
“आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो मिषक्। जानी-यात् स भवेद् वैद्यः शेंषास्तस्करवृत्तयः”। विदह्यमानंविपच्यमानम्। तस्करवृत्तयः तेषां तस्कराणामिव द्रव्य-लाभमात्रप्रयोजनं भवति। न तु धर्मयशोमैत्रीलाभः
“यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते। श्वपचाविवविज्ञेयौ तावनिश्चित्यकारिणौ”।

"https://sa.wiktionary.org/w/index.php?title=व्रणशोथ&oldid=303503" इत्यस्माद् प्रतिप्राप्तम्