व्रणास्राव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रणास्राव¦ पु॰
६ त॰। सुश्रुतोक्ते व्रणस्य पूयादिक्षरणे। तद्विज्ञानं च तत्रोक्तं यथा
“अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः।
“त्वङ्मांससिरास्नःय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणस्था-नानि। अत्र सर्वव्रणसन्निवेशः। तत्राद्यैकवास्तुसन्निवेशोत्वग्भेदी व्रणः सूप्रचरः शेषाः स्वयमवदीर्य्यमाणा दुरु-पचाराः। तन्नायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणा-कृतिसमासः। शेषास्तु विकृताकृतयो दुरुपक्रमा भ-वन्ति। सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभि-षग्भिश्चोपक्रान्ताः। अनात्मनामज्ञैश्चोपक्रान्ताः प्रवृद्धत्वा-द्दोषाणाम्। तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽति-मृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्ला-दीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरा-स्नायुप्रभृतिपूर्णः पूतिपूयस्राय्युन्मार्ग्युत्सङ्ग्यमनोज्ञ-दर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशो-थपिडकोपद्रुतोऽत्यर्थं दुष्टशीणितास्रावी दीर्घकाला-नुबन्धी चेति दुष्टव्रणलिङ्गानि। तस्य दोषोच्छ्रायेणषट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत। अत ऊर्द्ध्वंसर्वास्रावान् वक्ष्यामः। तत्र वृष्टासु छिन्नासु वा त्वक्षुस्फोटेषु भिन्नेषु विदारितेषु वा सलिलप्रकाशो भव-त्यास्नावः किञ्चिद्विस्रः पीतावभासश्च। मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्च। सिरागतः सद्य-श्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्यास्रावश्चात्र तनुर्विच्छिन्नः पि-च्छिलोऽवलन्वो श्यावोऽवश्यायप्रतिमश्च। स्नायुगतःस्निग्धो घनः सिंहाणकप्रतिमः सरक्तश्च। अस्थिगतो-ऽस्थून्यभिहते स्फुटिते मिन्ने दोषावदारिते वा दोषाव-[Page4995-a+ 38] क्षितत्वादस्थिनिःसारं शुक्तिधौतमिवाभाति। आस्राव-श्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च। सन्धिगतश्चपीड्यमानो न प्रवर्त्तते आकुञ्चनप्रसारणोन्नमनविनम-नप्रधावनोत्कासनप्रवाहणैश्च स्रवति। आस्रावश्चात्र पि-च्छिलोऽवलम्बी सफेनपूयरुधिरोन्मथितश्च। कोष्ठगतोऽ-सृङ्मूत्रपुरीषपूयोदकानि स्रवति। मर्मगतस्त्वगादिष्ववरु-द्धत्वान्नाच्यते। तत्र त्वगादिगतानामास्रावाणां यथाक्रमंपारुष्यश्यावावश्यायदधिसस्तुक्षारोदकमांसधावनपुलाकोद-कसन्निभत्वानि मारुताद्भवन्ति। पित्ताद्गोमेदोगोमूत्रभस्म-शङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि। पित्तवद्रक्ताद-तिविस्रत्वञ्च। कफान्नवनीतकासीसमज्जपिष्टतिलनारि-केलोदकवराहवसासन्निमत्वानि। सन्निपातात्तिलनारि-केलोदकेर्वारुकरसकाञ्जिकवसादारुकोदकप्रियङ्गुफलयकृ-न्मुद्गयूषसवर्णत्वानीति।
“श्लोकौ चात्र भवतः। पक्वा-शयादसाध्यस्तु पुलाकोदकसन्निभः। क्षारोदकनिमः स्रावोवर्ज्यो रक्ताशयात्स्रवन्। आमाशयात्कलायाम्भोनि-भश्च त्रिकसन्धिजः। स्रावानेतान् परीक्ष्यादौ ततःकर्माचरेद्भिषक्”। अत ऊर्द्ध्वं सर्वव्रणवेदना वक्ष्यामः। तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपणचुम्चुमायन-निर्दहनावभञ्जनस्थोटनविदारणोत्पाटनकम्पनविविधशूल-विश्लेषणविकिरणपूरणस्तम्भनस्वप्नावकुञ्चनाङ्गुशिकाः स-म्भवन्ति। अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहु-र्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात्। ऊपचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्ण-मिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसक्तिवच्चवेदनाविशेषास्तं पैत्तिकमिति विद्यात्। पित्तवद्रक्तस-मुत्थं जानीयात्। कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्प-वेदनत्वं स्तम्भः शैत्यञ्च यत्र तं श्लैष्मिकमिति विद्यात्। यत्र सर्वासां वेदनानां समुत्पत्तिस्तं सान्निपातिकमिति। अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्यामः। भस्मकपोतास्थिवर्णःपरुषोऽरुणः कृष्ण इति मारुतजौक्तः। नीलः पीतोहरितः श्यावः कृष्णो रक्तः कपिल इति रक्तपित्तसमु-त्थयोः। श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य। सर्ववर्णोपेतः सान्निपातिकस्य इति। भवति चात्र
“नकेवलं व्रणेषूक्तो वेदनावर्णसंग्रहः। सर्वशोथविकारेषुव्रणवल्लक्षयेद्भिषक्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रणास्राव/ व्रणा m. discharge from wounds or ulcers Sus3r.
