सामग्री पर जाएँ

व्रतभिक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रतभिक्षा, स्त्री, (व्रते उपनयनकाले भिक्षा ।) उपनयनकालीनभिक्षा । तस्या विधिर्यथा । अथ भैक्ष्यञ्चरति । अथ शब्दस्तूष्णीमादित्योप- स्थानमग्निप्रदक्षिणञ्च शंसति । “प्रतिगृह्येप्सितं दण्डमुपस्थाप च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेत् भैक्ष्यं यथाविधि ॥” इति मनुवचनात् ॥ भिक्षासमूहं भैक्ष्यं तच्चरति आवहति इत्यर्थः । मातरमेवाग्रे ये चान्ये सुहृदो यावत्यो वा सन्निहिताः स्युः । याचते इत्यध्याहार्य्यम् । सुहृदे स्निग्धहृदये स्वस्राद्ये । तथा च मनुः । “मातरं वा स्वसारं वा मातुर्व्वा भगिनीं निजाम् । भिक्ष्येत भिक्षां प्रथमां या चैनं नावमानयेत् ॥” सन्निहितास्तद्देशस्थाः न तु प्रतिगृहं गत्वा । भवति भिक्षां देहीति ब्राह्मणभिक्षाप्रयोगः । तथा च मनुः । “भवत्पूर्व्वं चरेत् भैक्ष्यमुपनीतद्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरंम् ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्त्रियविशां भैक्ष्यचर्य्या यथाक्रमम् ॥” इति याज्ञवल्क्यवचनाच्च ॥ इति संस्कारतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रतभिक्षा¦ स्त्री व्रताङ्गं भिक्षा। उपनयनकालविहित-भिक्षायां तद्विधिः संस्कारतत्त्वे दर्शितो यथा
“अथ भैक्ष्यञ्चरति”। अथ शब्दस्तूष्णीमादित्योपस्थानम-ग्निप्रदक्षिणञ्च शंसति।
“प्रतिगृह्येप्सितं दण्डमुपस्थायच भास्करम्। प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथा-विधि” इति मनुवचनात्।
“भिक्षासमूहं भैक्ष्यं तच्चरतिआहरति इत्यर्थः।
“मातरमेवाग्रे ये चान्ये सुहृदो या-वत्यो वा सन्निहिताः स्युः”। याचते इत्यध्याहार्य्यम्। सुहृदः स्निग्धहृदयः स्वस्रादयः तथाच मनुः
“मातरंवा स्वसारं वा मातुर्वा भगिनीं निजाम्। मिक्षेत भिक्षांप्रथमं याचैनं नावमानयेत्”। सन्निहितास्तद्देशस्थाः नतु प्रतिगृहं गत्वा। (भवति! भिक्षां देहीति) ब्राह्मण-भिक्षा प्रयोगः। तथा च मनुः
“भवत्पूर्वं चरेत् भैक्ष्यमुप-वीतो द्विजोत्तमः। भवन्मध्यन्तु राजन्यो वैश्यस्तु भव-दुत्तरम्”।
“आदिमध्यावसानेषु भवच्छब्दोपलक्षिता। ब्राह्म-णक्षत्रियविशां भैक्ष्यचर्य्या यथाक्रमम्” इति याज्ञ-वल्क्यवचनाच्च। आचार्य्याय भैक्ष्यं प्रणिपत्य वेदयति(समर्पयति) भोरिति”।
“आचार्य्याय निवेद्य प्रतिगृह्णीया-दिति” गृह्यान्तरवचनात्। भैक्ष्यं भोरिति निवेदनमन्त्रः। भैक्ष्यस्य संस्कारार्थत्वात् आचार्य्याय निवेद्य स्वथं तदेवभुञ्जीत। तथा च मनुः
“समाहृत्याथ तद्भैक्ष्यं यावदन्न-ममायया। निवेद्य गुरवेऽश्नीयात् आचार्य्यः प्राङ्मुखःशुचिः”। आचार्य्यश्च माणवकाय भैक्ष्यं प्रदाय कर्मशेषंसमापयेत्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रतभिक्षा¦ f. (-क्षा) Solicting alms, as one of the ceremonies accom- panying investiture with the sacred thread. E. व्रत the observance of investiture, भिक्षा begging.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रतभिक्षा/ व्रत--भिक्षा f. soliciting alms (as one of the ceremonies at investiture with the sacred thread) W.

"https://sa.wiktionary.org/w/index.php?title=व्रतभिक्षा&oldid=303843" इत्यस्माद् प्रतिप्राप्तम्