सामग्री पर जाएँ

व्रीहिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रीहिः, पुं, (वर्हति वृद्धिं गच्छतीति । वृह वृद्धौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । पृषोदरादित्वात् साधुः ।) धान्यमात्रम् । आशुधान्यम् । इत्यमरः ॥ अस्य सामान्यनाम- गणना गुणाश्च यथा, -- “धान्यं भोग्यञ्च भोगार्हमन्नाद्यं जीवसाधनम् । तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ व्रीह्यादिकं यदि ह शूकसमन्वितं स्यात् यत् शूकधान्यमयमुद्गमकुष्टकादि । शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बी- धान्यं तृणोद्भवतया तृणधान्यमन्यत् । तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । शिम्बीभवं गुरु हिमञ्च विबन्धदायि वातालकन्तु शिशिरं तृणधान्यमाहुः ॥ “तिलैर्वीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥” व्रीहिः शरत्पक्वधान्यम् । याज्ञवल्क्यः । “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” हरिष्यान्नेन शालिव्रीह्यन्नेन । इति । अमा- वास्यास्त्रिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयो- दशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा- पतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥” इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहि- यवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैष्मादि- धान्यव्युदासाय । शालिधान्यस्य तु प्राप्तिः । “शरद्वसन्तयोः केचित् नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥” इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येऽष्टौ- शालिविधानात् यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् । इति च श्राद्धतत्त्वम् ॥ * ॥ नवान्न- श्राद्धकालो यथा । विष्णुः । अमावस्यास्तिस्रो- ऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्टपद्यूर्द्ध्वं कृष्ण- त्रयोदशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥ व्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव । न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥” इति मलमासतत्त्वम् ॥ तेन यागकरणं यथा, -- व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते ॥ तत्र “व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रामाण्यकल्पनम् ।” इत्येकादशी- तत्त्वम् ॥ * ॥ व्रीह्यप्राप्तौ शालिधान्येन कर्म्म- करणं यथा, -- “यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा व्रीहीणामिव शालयः ॥” इति तिथ्यादितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

व्रीहिः [vrīhiḥ], [व्री-हि किच्च]

Rice; as in बहुव्रीहि q. v.

A grain of rice. -Comp. -अगारम् a granary. -काञ्चनम् a kind of pulse (Mar. मसुरा). -मयः a sacrifial cakeश

"https://sa.wiktionary.org/w/index.php?title=व्रीहिः&oldid=304589" इत्यस्माद् प्रतिप्राप्तम्