व्रीहिमयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहिमयः, पुं, (व्रीहेः पुरोडाशः । व्रीहि + “व्रीहेः पुरोडाशे ।” ४ । ३ । १४८ । इति मयट् ।) व्रीहिनिर्म्मितपुरोडाशः । इति सिद्धान्तकौमुदी ॥ (व्रीह्यात्मके, त्रि । यथा, महाभरते । १३ । ११५ । ५६ । “श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः । येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥”)
