शकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकः, पुं, (शक + अच् ।) जातिभेदः । नृपभेदः । इति मेदिनी ॥ स च नृपः शकादित्यः इति शालिवाहन इति च नाम्ना ख्यातः । तस्य मरणदिनावधि वत्सरगणनाङ्कः शकाब्देति नाम्ना पञ्जिकायां लिख्यते । स च म्लेच्छ- जातिविशेषः । सत्ययुगे सगरराजेनास्य मस्त- कार्द्धं मुण्डयित्वा वेदबाह्यत्वमकारि । यथा, -- “ततः शकान् सयवनान् काम्बोजान् पारदां- स्तथा । पह्नवांश्चापि निःशेषान् कर्त्तुं व्यवसितो नृपः ॥ ते हन्यमाना बीरेण सगरेण महौजसा । वशिष्ठं शरणं जग्मुः सूर्य्यवंशपुरोहितम् ॥ वशिष्ठः शरणापन्नान समये स्थाप्य तानृषिः । सगरं वारयामास तेभ्यो दत्त्वाभयं तदा ॥ सगरस्तां प्रतिज्ञान्तु निशम्य सुमहाबलः । धर्म्मं जघान तेषाञ्च वेशानन्यांश्चकार ह ॥ अर्द्धं शिरः शकानान्तु मुण्डयामास भूपतिः । जवनानां शिरः सर्व्वं काम्बोजानामपि द्विज ॥ पारदान्मुक्तकेशांस्तु पह्रवान् श्मश्रुधारिणः । निःस्वाध्यायवषट्कारान् सर्व्वानेव चकार ह ॥” इति पाद्मे स्वर्गखण्डे सगरोपाख्यानम् १५ अः ॥ देशभेदः । इति विश्वः ॥ (यथा, मात्स्ये । १२० । ४५ । “तुषारान् वर्व्वरान् कारान् पह्रवान् पारदान् शकान् । एतान् जनपदान् मङ्क्षु प्लावयित्वोदधिं गता ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकः [śakḥ], 1 N. of a king (especially applied to Śālivāhana; but scholars do not seem to have yet agreed as to the precise meaning and scope of the word).

An epoch, era (the term is especially applied to the era of Śālivāhana which commences 78 years after the Christian ear). -काः (m. pl.)

N. of a country.

N. of a particular tribe or race of people (mentioned in Ms.1.44 along with the Pauṇḍrakas &c.; see Mu.5.11 also). -Comp. -अन्तकः, -अरिः epithets of king Vikramāditya who is said to have exterminated the Śakas. -अब्दः, -कालः a year of the Śaka era.-कर्तृ, -कृत् m. the founder of an era.

"https://sa.wiktionary.org/w/index.php?title=शकः&oldid=305471" इत्यस्माद् प्रतिप्राप्तम्