शक्तिग्राहक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्राहकः, पुं, व्याकरणोपमानादिः । शक्ति- ग्रहीता च । शक्तिं ग्राहयति गृह्णाति च इत्यर्थे ञ्यन्ताञ्यन्तग्रहधातोर्णक(ण्वुल्)प्रत्ययेन निष्पन्नमेतत् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्राहक¦ पु॰ शर्क्ति गृह्लाति ग्रह--ण्वुल्।

१ कार्त्ति-केये शक्तिं ग्राहयति योधयति ग्रह--णिच् ण्वुल्।
“शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्यात् व्यवहार-तश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्यवृद्धाः” इत्युक्ते शक्तिबोधके

२ हेतौ। शक्तिग्रहप्रका-रश्च शब्दशक्तिप्रकाशिकायां दर्शितो यथा
“सङ्केतस्य ग्रहः पूर्व वृद्धस्य व्यवहारतः। पश्चादेवो-पमानाद्यैः शक्तिधीपूर्वकैरसौ”। प्रथमं षदेषु सङ्केत-ग्रहोवृद्धस्य व्युत्न्नस्य शब्दाधीनध्यवहारादेव बालानांतथाहि गामानयेति केनचिन्निपुणेन नियुक्तः कश्चनव्युत्पन्नस्तद्वाक्यतोऽर्थं प्रतीत्य गवानयनं करोति तच्चो-पलभमानो बाल इदं गवानर्यनं स्वनोचरप्रवृत्तिजन्यंचेष्टात्वान्मदीयस्तनपानादिवदित्यनुमाय सा गवानयन-प्रवृत्तिः स्वविषयधर्मिककार्य्यताज्ञानजन्या प्रवृत्तित्वा-न्निजप्रवृत्तिवदिति प्रवृत्तेर्गवानयनधर्मिककार्य्यताज्ञान-जन्यत्वं प्रसाध्य गवानयनगोचरतज्ज्ञानमसाधारण-हेतुकं कार्य्यत्वाद्धटवदित्येवमनुमिन्वानः समुपस्थितत्वा-ल्लाघवाच्च श्रुतं वृद्धवाक्यमेव तदसाधारणकारणत्वेना-वधारयति तदनन्तरञ्च गवादिपदानां प्रत्येकमावापो-नापेन गवादिबुद्धौ जनकत्वमवगत्यानतिप्रस{??}ये गवादि-{??}प्रे{??}का तदञ्चकूलत्वं कल्पयति। छ{??}त्तु{??}दुप-[Page5076-b+ 38] मानाच्छक्तिग्रहो यथा गवादिपदशक्तिधीसाचिष्येनगोसादृश्यातिदेशवाक्यात् गवयपदवाच्यत्वबोधोत्तरं गव-यत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्यइत्याकारः। क्वचिच्च व्याकरणात् यथा कर्मणि द्वितीयाकर्त्तरि परस्मैपदमित्यानुशासनात् कर्मत्वादौ द्वितीयादेः। क्वचित् कोषादपि यथा
“गुणे शुक्लादयः पुंसि गुणिलि-ङ्गस्तु तद्वति”।
“सुशीमः शिशरो जडः। चूर्णे क्षोदःसमुत्पिञ्जलौ भृशमाकुले” इत्यादि कोषेभ्यः श्वैत्यादौशुक्लादिशब्दस्य। क्वचिद्विरणादपि यथा पचति पाकं क-रोतीति तुल्यार्थकवाक्यात् कृत्यादौ तिङादेः। क्वचित्प्रसिद्धार्थशब्दसामानाधिकरण्यादपि यथा नीरूपस्पर्श-वान् वायुर्निस्पर्शमूर्त्तिमन्मन इत्यादौ रूपशून्यस्पर्शवदा-दिषु वाय्वादिपदस्य। वायुत्वादिजातेरतीन्द्रियत्वेन स्वरूप-तस्तदवच्छिन्नस्यानुपस्यित्या तत्र शक्तिग्रहायागात् यथावा
“सत्कृत्यालङ्कृतां कन्यां ददानः कृकुदः स्मृतः” इत्या-दावुक्तरीत्या कन्यादात्रादिषु कुकुदादिपदस्य। सहकार। तरौ मघुरं रौति पिक इत्यादिकन्तु न युक्तपमुक्तक्रमेणशक्तिग्रहस्योदाहरणं तिङर्थे धर्मिण्यभेदेन नामार्थान्व-वस्याव्युत्पन्नत्वात् प्रत्यक्षसिद्धकौकिलत्वजात्यवच्छिन्न एवलाघवेन पिकशब्दस्म शक्त्यवच्छेदाच्च। क्वचिद्वाक्यशेषा-दपि यथा यवपदस्य कङ्गुप्रभृतौ स्लेच्छानां दीर्घशूकेच शिष्टानां घ्यवहारादेकमात्रशक्तेः परिच्छेत्तुमशक्य-त्वात् नानार्थत्वस्य चान्याय्यत्वात् यवमयश्चरुर्भवतीति-श्रुतौ यवपदस्यार्थसन्देहे
“वसन्ते सर्वशस्यानां जायतेपत्रशातनम्। सोदमानास्तु तिष्ठन्ति यवाः कणिशशालिन” ःइति विध्यर्थाकाङ्क्षया प्रवर्त्त मानाद्वाक्यशेषाद्दीर्घशूक एवयवपदस्य शक्तिग्रहः। यथा वा स्वाराज्यकामोऽग्निष्टो-मेन यजेतेत्यादिविधिशेषीभूतेभ्यः
“यन्न दुःखेन सम्भिन्नंन च ग्रस्तमनन्तरम्। अमिलामोपनीतं च तत्सुखंखःपदास्पदम” इत्यादिवाक्येभ्यः स्वरादिपदस्य”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिग्राहक/ शक्ति--ग्राहक m. who or what causes to apprehend the force or signification (of a word or phrase) , determining or establishing the meaning of words (as a dictionary , grammar etc. ) MW.

शक्तिग्राहक/ शक्ति--ग्राहक m. = -ग्रहib.

"https://sa.wiktionary.org/w/index.php?title=शक्तिग्राहक&oldid=306436" इत्यस्माद् प्रतिप्राप्तम्