शक्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तुः, पुं, क्ली, (शक + बाहुलकात् तुन् ।) भर्ज्जित- यवादिचूर्णम् । छातु इति भाषा । यथा, -- “धाना भृष्टयवे भूम्नि स्त्रियां पुं भूम्नि शक्तवः । केचित्तु शक्तुरस्त्रीति बन्धुरा भूमनि स्त्रियाम् ॥” इति जटाधरः ॥ अस्य गुणाः । “यवानां शक्तवो रूक्षा लेखना वह्निवर्द्धनाः । वातलाः कफरोगघ्ना वातवर्च्चोऽनुलोमनाः ॥ धानासंज्ञास्तु तेऽतीव दुर्जरा लेखनाः स्मृताः । गुर्व्वी पिण्डीकृतात्यर्थं लघ्वी सैव विपर्य्ययात् । शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥” इति राजवल्लभः ॥ अथ शक्तवः । “धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि शक्तवः ।” तत्र यवशक्तवः । “यवजाः शक्तवः शीता दीपना लघवः सराः । कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः ॥ ते पीता बलदा वृष्या बृंहणा भेदनास्तथा । तर्पणा मधुरा रुच्याः परिणामे बलावहाः ॥ कफपित्तश्रमक्षुत्तृड्व्रणनेत्रामयापहाः । प्रशस्ता घर्म्मदाहृद्या व्यायामार्त्तशरीरिणाम् ॥” अथ चणकयवशक्तवः । “निस्तुषैश्चणकैर्भृष्टैस्तूर्य्यांशैश्च यवैः कृताः । शक्तवः शर्करासर्पिःशक्ता ग्रीष्मेऽतिपूजिताः ॥” अथ शालिशक्तवः । “शक्तवः शालिसंभूता वह्निदा लघवो हिमाः । मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः ॥ न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून् । न जलान्तरितान् न द्बिः शक्तूनद्यान्न केवलान् ॥ पृथक्पानं पुनर्द्दानं सामिषं पयसा निशि । दन्तच्छेदनमुष्टञ्च सप्त शक्तुषु वर्ज्जयेत् ॥” इति भावप्रकाशः ॥ जन्मतिथौ तद्भक्षणफलम् । ज्योतिषे । “शक्तून् खादति यस्तु तस्य रिपवो नाशं प्रयान्ति ध्रुवं भुङ्क्ते यस्तु निरामिषं स हि भवेत् जन्मान्तरे पण्डितः ।” इति तिथ्यादितत्त्वम् ॥ मेषसंक्रान्त्यां तद्दानविधिर्यथा । स्मृतिः । “मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ।” महार्णवे । “यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् । पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते । विप्रेभ्यः पादुके छत्रं पितृभ्यो विषुवे शुभम् ॥” इति तिथ्यादितत्त्वम् ॥ चातुर्मास्यव्रते प्रातः स्नानस्य घृतशक्तवो दक्षिणा यथा । नारदीयम् । “नित्यस्नाने हविर्द्दद्यान्निःस्नेहे घृतशक्तवः ॥” नित्यस्नाने प्रातःस्नाने । इति मलमासतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श(स)क्तु¦ पु॰ ब॰ व॰ श(स)च--तुन् (छातु) भृष्ठयवादिचूर्णे[Page5077-a+ 38] अमरः। कृतान्नशब्दे

२१

८५ पृ॰ तद्भेदादि दृश्यम।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तु¦ mn. (-क्तुः-क्तु) According to some authorities only. m. plu. (शक्तवः) The powder or flour of barley and other grain, first fried and then ground. E. शच् to go, &c., तुन् aff.; also read सक्तु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तु [śaktu], m., n. The flour or meal of barley, barleymeal; see सक्तु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तु शक्तुक, incorrect for सक्तु, सक्तुक, See.

"https://sa.wiktionary.org/w/index.php?title=शक्तु&oldid=306814" इत्यस्माद् प्रतिप्राप्तम्